________________
१५०.
ઋષભપંચાશિકા.
[ श्रीधनपाल
साम्प्रतं स्तुतिकृद् भगवद्दर्शनेन कृतार्थ मन्यमानः स्वं जन्म पुनरुत्तरकालेऽपि तत्प्रार्थनारूपां स्तुतिमाह -
जइवि कयत्थो जगगुरु ! मज्झत्थो जइवि तहवि पत्थेमि । दाविज्जसु अप्पाणं, पुणो वि कइया वि अम्हाणं ॥ ४९ ॥
[ यद्यपि कृतार्थो जगद्गुरो ! मध्यस्थो यद्यपि तथापि प्रार्थये । देर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम् ॥ ]
प्र०वृ० - जइवित्ति । हे कृपाकूपार ! जगद्गुरो ! यद्यपि त्वमेवंविधस्तथाप्यहं त्वां प्रार्थयामि इति सम्बन्धः । इदानीं यादृशः स्वामी तदेवाह । किंविशिष्टः त्वं ? जइवि - यद्यपि ' कृतार्थः ' कृतो - निर्वर्तितः सकलकर्ममलोपायविगलनान्निर्वृतिपुरीप्रवेशलक्षणोऽर्थः - प्रयोजनं येन स कृतार्थः, तथा मज्झत्थो जइवि - यद्यपि मध्यस्थः, मध्ये रक्तद्विष्टमूढैरपृष्ठे चिदानन्दात्मनि स्वस्वरूपे तिष्ठतीति मध्यस्थः, विमल केवला लोकदर्पणप्रतिबिम्बितः; तथा भवितव्यतावशेन रागद्वेषमो हैरुपहन्यमानं चराचरं जगज्जन्तुजातमीक्षमाणोऽयौदासीन्येन स्थितः । यश्च कृतार्थो मध्यस्थश्च भवति स कथमप्रार्थितः परार्थाय नियतः ( प्रयतते ? ) इत्यतः प्रार्थयामीत्युक्तम् । तामेव प्रार्थनामाह - ' दाविज्जसु अप्पाणं पुणो वि का वि अम्हाणं' यद्यपि त्वं कृतकृत्य उदासीनश्च तथापि कइया वि-कदाचिदपि कस्मिंश्चिद् देशे काले वा पुनः पुनरप्यस्माकमात्मानं दाविज्जसु-दर्शयस्व, दर्शनप्रदानेन प्रसादं कुर्याः । अयमभिसन्धिः - यद्यपि कुतोऽपि पुराकृतसुकृतसंयोगादस्मिन् जन्मनि भगवद्दर्शनं सञ्जातं तथापि विचित्राः कर्मपरिणतयो जीवानां क्षणे क्षणे विपरिणमनधर्माणश्च शुभाशुभ परिणामात् । तद् यदि प्रबलविगलितवीर्यविशेषोऽयमस्माकमात्मा तव सम्यग्दर्शनं श्रद्धानं वाऽवधीर्य कथमपि मिथ्यापथं पाथो ( प्राप्तो ? ) भवति तदा तस्मिन् क्षणे पुनरप्यस्य स्वदर्शन वितरणेन प्रसादं विदध्या इति ॥
मौचित्यचरप्येष धनपालक विर्वास्तोष्पतेरपि स्तुत्यस्य जगत्पतेरस्यां गाथायां सर्वेषु विशेषणेष्वेकवचनं प्रयुक्तवान्, आत्मनस्तु अस्माकमिति बहुवचनम् ? उच्यते - नियतमभिप्रायापरिज्ञानादिदमभिधीयते भवता । पश्य य एव तुच्छप्रकृतित्वेनात्मम्भरिः पुमान् भवति स एव विज्ञत्यवसरे प्रसादसुमुखं स्वामिनमवलोक्य स्वार्थपरतया केवलस्व सम्बद्धामेव विज्ञप्तिं विधत्ते । यस्तु महेच्छतया सर्वजनीनचरितः स्यात् स तस्मिन् क्षणे तथाविधं स्वामिनमवलोक्य सर्वेषां स्वानुरूपाणां तदनुजीवानां क्षीणतार्ति (सम्प्राप्तार्तितां ?) विज्ञापयति, एवमसावपि कविपुङ्गवस्तैस्तैः स्तुतिवचोभिरभिप्रसाद्य स्वामिनं प्रार्थयति स्म । यत् सञ्जातभगवद्दर्शनत्वेन स्पृष्टसम्यग्दर्शनानां त्वत्प्रवचनानुयायिनां चास्माकं सर्वेषामस्मद्धर्माणां पूर्वोक्तयुक्त्यैव प्रतिपतितपरिणामानामात्मदर्शनेन सानुग्रहो भूया इत्यर्थः अस्मा१ 'दापयेः' इत्यपि सम्भवति ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org