________________
ઋષભપંચાશિકા
[ श्रीधनपालસ્પષ્ટીકરણ @पमेय- भान
આ પદ્યમાં પુદ્ગલ-પરાવર્તનોને અરઘટ્ટની, સંસારને વનની અને ઉત્સર્પિણ-અવસર્પિણીને ઘડાઓની ઉપમા આપવામાં આવી છે.
एवमतीतकालानुभूतमात्मनः स्वरूपमभिधाय साम्प्रतं वर्तमानविषयमभिधित्सुराह
भमिओ कालमणंतं, भवम्मि भीओ न नाह! दुक्खाणं । संपइ तुमम्मि दिटे, जायं च भयं पलायं च ॥ ४८ ॥ [भ्रान्तः कालमनन्तं भवे भीतो न नाथ! दुःखेभ्यः ।
सम्प्रति त्वयि दृष्टे जातं च भयं पलायितं च ॥] प्र० ०-भमिओ त्ति । हे विहितदुर्दान्तमन्मथप्रमाथ! नाथ ! अहं हि भैरवभवे पूर्वोक्त युक्त्यैवानन्तम्-अपर्यवसानं कालम्-अनेहसं भ्रान्तः-पर्यटितः। तस्मिंश्च दारुणदुःखनिलयेऽपि बम्भ्रम्यमाणस्तेभ्यस्तथाविधदुःखेभ्यो मनागपि न भीतः । संपइ त्ति-संप्रति तुमम्मि-त्वयि दिटे-दृष्टे अनन्यसामान्यदेवत्वेन मनस्यवस्थापिते जन्मजरामरणादिरूपेभ्यः सांसारिकेभ्यो दुःखेभ्यो भयं-साध्वसं जातं-प्रादुर्भूतं च तदैव पलायितं-नष्टं च । चशब्दस्तुल्यकालवचनः । इयमत्र भावना-किलायं जीवः सदैवाविनश्वराकारे सकलक्लेशकोशागारे संसारे निरन्तरं परिभ्रमन् सर्वथैवानवहितधर्माधर्मव्यवहारतया कर्मबन्धहेतूनजानानः कषायविषयादीन् , अत एव निःशङ्क प्रवर्तमानः प्राणवधादिषूपभुञ्जानः च विपर्यस्तमतितया सुखबुद्ध्या तत्प्रत्ययान्यसङ्ख्यदुःखान्याशङ्कामात्रमपि न करोति । कुतस्त्यं पुनर्भयम् ? यदा पुनः कर्मक्षयोपशमजन्यमगण्यपुण्यप्राग्भारलभ्यं लब्ध्वा अपूर्वकरणादिक्रमेण भगवद्दर्शनमामोति तत्प्रवचनोपदेशलेशं (च) शनैः शनैः परिशीलयति तदा मनागुन्मीलितविवेकः स्वयमेव चिन्तयति-अत एवामी मया कषायविषयादयः सर्वकार्येषु प्रागारोप्य पुरस्कृताः, तैरेवाहमियन्तमनन्तमनेहसमसमञ्जसविडम्बनाभिविंडम्बितः । तथैव चाद्यापि मामेवाभिभवितुममीषामुपक्रमस्तन्न जाने किमपि भविष्यति इति महान्तमन्तर्भयं क्षणमनुभवति । पुनः परिशीलयंस्तदैव भगवत्प्रवचनं विलोक्य कषायादिमदविदलनोदामपराक्रमानुपशमादीन् नियतममीषांपुरस्कारेण प्रमथितप्रतिपन्थिसार्थसामर्थ्य विधाय वैरनिर्यातनं श्रयिष्ये सनातनस्थानमिति तदैवोत्तीर्णभयभरः प्रमोदमेदुरश्च भवति । इति-अमुना प्रकारेण स्वामिनि दृष्टे भयं जातं च पलायितं च । इति अष्टचत्वारिंशत्तमगाथार्थः ॥ ४८ ॥
हे० वि०-(भमिओ त्ति)। हे नाथ! भ्रान्तः-पर्यटितः कालम् । कियन्तम् ? अनन्तं, जीवस्य अनादिकालं यावत् स्थितत्वात् । क ? भवे-संसारे । भवन्त्यस्मिन् कर्मवशवर्तिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org