________________
११६ ગણપંચાશિકા,
[ श्रीधनपालपुनरन्येन केनचित् तदागमविप्लावितेनैव स्वाभिप्रायेण वापीदमभिहितं, यदुत
"यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयम्भुवा। यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद् यज्ञे वधोऽवधः॥१॥"
-मनुस्मृतौ (अ० ५, श्लो० ३९) तथा केनचित् क्वापि मांसाशनमपवदता दयालुनैवेदमुदीरितमभूत्
"मां स खादयिताऽमुत्र, यस्य मांसमिहाझ्यहम् ।
एतन्मांसस्य मांसत्वे, निरुक्तं मुनिरब्रवीत् ॥ १॥” । तथा पुनः केनचित् तदुक्तं युक्तमसूययैवापहस्तयता तत्समयप्रवीणेन कापि प्रोक्तम्"क्रीत्वा स्वयं वाऽप्युत्पाद्य, परोपहृतमेव वा"
-मनुस्मृतौ (अ० ५, श्लो० ३२) तदेवं प्रयोक्तृणां स्वैरपलापितया परस्परेण पौर्वापर्येण विरुद्धाः परसमयाः यथा यथा श्रूयन्ते तथा तथा स्थानेऽवस्थितार्थप्रयोक्तरि त्वयि वीतरागेऽनुरागवृद्धिं जनयन्तीत्येवंविधाश्च ते कथं स्याच्छब्दलाञ्छितानेकान्तात्मकत्वन्मतप्रवलप्रतिभानां मनो हरन्ति । इति एकोनचत्वारिंशत्तमगाथार्थः ॥ ३९ ॥
हे० वि०-अधुना भगवत्समयस्थितिचित्तदृढताप्रतिपादनद्वारेण स्तवमाह-(आयनिअत्ति)।
आकर्णिताः-श्रुताः क्षणार्धमपि-स्तोककालमपि त्वयि स्थिरं-निश्चलं कुर्वन्ति-विदधत्यनुरागं-बहुमानं ये परसमयाः-बौद्धादिसिद्धान्तास्तथापि मनः-चित्तं न हरन्ति-नाहादयन्ति । केषामित्याह-त्वत्समयज्ञानां-भवसिद्धान्तवेदिनाम् । किमिति ? निश्चलचित्तत्वात् तेषाम् ॥ इति गाथार्थः ॥ ३९॥ १ मनुस्मृतौ (अ० ५, श्लो० ५५) तु यथा
"मांस भक्षयिताऽमुत्र, यस्य मांसमिहादयहम् ।
एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः॥" २ 'भक्षयिता' इति पाठः हारिभद्रीयाष्टके योगशास्त्र(प्र० ३, श्लो० २६)स्वोपज्ञवृत्तौ च । ३ 'मनुरबबीत्' इति पाठो योगशास्त्र(प्र० ३, श्लो० २६)स्त्रोपज्ञवृत्तौ । ४ उत्तरार्धं तु यथा
- "देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ।" सम्पूर्णः श्लोको दृश्यते योगशास्त्र(प्र० ३, श्लो०३३)स्वोपज्ञवृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org