________________
'विरचिता]
ऋषभपञ्चाशिका. આ પદ્યમાં ઉત્પત્તિ અને ઉદય, જ્ઞાન અને સૂર્ય, જિનેશ્વર અને દિવસ, ભુવન અને ગગન અને મોહ અને અંધકાર એ ઉપમાન-ઉપમેયનાં યુગલો છે.
વિશેષમાં અત્ર અસંગતિ અલંકાર પણ છે કેમકે એક સ્થળે કારણ છે ત્યારે અન્ય સ્થળે કાર્યોત્પત્તિ છે. જેને જ્ઞાન ઉત્પન્ન થયું હોય તેને મેહ નાશ પામે એ સુવિદિત હકીકત છે. છતાં અને તે જ્ઞાન પ્રભુને ઉદ્દભવ્યું અને જગના મોહને નાશ થયો.
केवलोत्पत्तेरनन्तरं पूजामाह
पूआवसरे सरिसो, दिवो चक्कस्स तं 'पि भरहेण । विसमा हु विसयेतिण्हा, गरुआण वि कुणइ मइमोहं ॥ १७॥ [पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि भरतेन ।
विषमा खलु विषयतृष्णा गुरुकाणामपि करोति मतिमोहम् ॥] प्र० वृ०-पूआवसरत्ति । हे भुवनभानो! भगवन् ! त्वं केवलमहिमप्रस्तावे भरतचक्रिणा चक्रेण तुल्यो दृष्टोऽसीति । अयोध्यापुरिमतालपुरपरिसरे भुवनभर्तुः केवलोत्पत्तिरभूत् । तदैव प्रहरणशालायां यक्षसहस्राधिष्ठितं चक्ररत्नमुदपद्यत । ततः प्रहर्षोत्तालगतयः सत्वरमुद्यानपालकाः प्रहरणशालानियुक्ताश्च युगपदेत्य चक्रवर्तिनं विज्ञपयामासुः । ततः समकालं श्रुतियुगलं उपगते तस्मिन् गुरुणि कार्ये (महो)द्वयोः कस्यानयोर्विधेय इति मनार दोलायमानं मनो विधाय चक्रवर्ती चिन्तितवान्-अहो मे महामोहः! क रुधिरधौतधारं चक्ररत्नम् , क चायं चराचरजगज्जन्तुजातहितकृतः पूजनं पूजा तस्या अवसरः पूजावसरः, तस्मिन् सदृशः-समानः केन? चक्रेण चक्रगणनया भरतेन चेतसि चिन्तितः, विषयाः शब्दादयस्तेषु तृष्णा-अत्यन्तासक्तिः सा विषमा एव-दुर्जयैव । यतो गुरूणामपि-भुवनमहनीयमहिनामपि मोहं-विपर्ययेणान्यथाभावं करोति ॥ इति सप्तदशगाथार्थः ॥१७॥ हे० वि०-ततः किमित्याह-(पूआवसरत्ति)
पूजावसरे-पूजाप्रस्तावे प्राप्ते सदृशः-तुल्यो यथा भवसि एवं दृष्टः-परिकल्पितः त्वमपिभगवानपि । आस्तां तावदन्यः।कस्येत्याह-चक्रस्य-प्रहरणविशेषस्य । केन ? भरतेन नरपतिना । अथवा विषयग्रहग्रस्तानां किमत्राद्भुतमित्याह-विषमा-वैषम्यधर्मा हुरिति स्फुट विषयतृष्णा-विषयवाञ्छा यतो गुरुकाणामपि-महतामपि करोति-विदधाति मोहं-बुद्धेरन्यथात्वम् ॥ इति गाथाऽक्षरार्थः ॥ १७ ॥
१ 'सि' इति पाठान्तरम् । २ 'तरहा' 'तिन्हा' इत्यपि पाठौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org