________________
३६
२ - वृद्धिद्वारम् । विशेषतः उग्राहणिका-चिन्ता ।
[गाथा-९ इति, तच्-चिन्ता-कारकैःउद्ग्राहणिका तु अ-भग्न-चित्ततया
स्व-द्रव्यवत् देव-द्रव्या-ऽऽदावऽपि कार्या । अन्यथा, बहु-विलम्बे
दुर्भिक्ष-देश-भङ्ग-दौःस्थ्या-ऽऽपाता-ऽऽदेरऽपि सम्भवात् । बहूपक्रमेऽपि तद-ऽ-सिद्धेः । तथा च महान् विनाश-दोष आपद्यते,
महेन्द्र-पुरीय-श्राद्धवत् । तच्-चिन्ता तथा हि :महत्त्वे दृष्टाऽन्तः । महेन्द्र-पुरे-अर्हच्-चैत्य-चन्दन-भोग-पुष्पा-ऽ-क्षता-ऽऽद्य-ऽर्थम्
देव-द्रव्योद्ग्राहणिकायाम् श्री-सङ्घन नियोजिताश्चत्वारः चिन्ता-कर्तारः श्राद्धाः सम्यक् चिन्तां कुर्वन्ति । अन्यदामुख्य-चिन्ताकृद्- उद्-ग्राहणिका-करणा-ऽऽदौ यत्-तद्-वचनश्रवणा-ऽऽदिना दूनः चिन्तायां शिथिली-भूतः ।। " ततः. "मुख्या-ऽनुयायिनो व्यवहाराः ।" इति अन्येऽपि शिथिली-भूताः । तावता अकस्माद् देश-भङ्गा-ऽऽदिना बहु-देव-द्रव्यं विनष्टम् । " ततः प्रमादेन सद्-बल-वीर्य-गोपनात् सा-ऽनुबन्ध
पापकर्मणा असौ अ-सङ्ख्य-भवान् भ्रान्तः । इति ।" उद्ग्राहणिकाचिन्तोपसंहारः ।
निर्विलम्बम् उद्-ग्राहणिकयाऽपि देवा-ऽऽदि-लभ्यं श्रावका-ऽऽदिभ्यः सोत्साहम्- सु-श्रावकैग्राह्यम् । स्वयं चाऽपि निर्विलम्बम् देवा-ऽऽदि-देयं देयम्, न तु क्षणं स्थाप्यम् । अन्यस्याऽऽपि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनः देव-ज्ञाना-ऽऽदेः ? ।
एवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org