________________
१३२
७ - दृष्टांतद्वारम् । कर्मसार-पुण्यसार-दृष्टांतौ । [गाथा-६७
" ज्ञानी प्राऽऽह, :- “चन्द्र-पुरे- जिन-दत्त-जिन-दास-श्रेठिनौ, परमा-ऽऽर्हतावऽभूताम् । “ अन्यदा, तत्रत्य-श्रावकैः सम्भूय, ज्ञान-द्रव्यं साधारण-द्रव्यं च तयोः उत्तमत्त्वात् अर्पितं रक्षायै । " अन्येयुः, आयेन स्व-पुस्तिकायामऽतिविलोक्यमानलेख्यकेन मास-देयतया द्रम्मान् निर्णीय, पार्श्वे तु अपरद्रव्या-5-भावात् “इदमऽपि ज्ञान-द्रव्यमेव ।" इति-विचिन्त्य, ज्ञान-द्रव्यात् द्रा-दश-द्रम्माः लेखकस्याऽर्पिताः । “ द्वितीयेन तु “साधारण-द्रव्यम् सप्त-क्षेत्री-योग्यत्वेन श्राद्धानामऽपि योग्यम् ।" इति विमृश्य, साधारण-द्रव्याद् द्वा-दश-द्रम्माः स्व-गृह-गाढ-प्रयोजने अन्य-द्रव्या-ऽ-भावात् व्ययिताः । “ ततो मृत्वा, दुष्कर्मणा प्रथम-नरकं गतौ । " ततः, देव-द्रव्य-भक्षक-सागर-श्रेष्ठिवत्- सर्वत्र- एकेन्द्रियद्वि-त्रि-चतुः-पञ्चेन्द्रिय-तिर्यक्षु च द्वा-दश-सहस्र-वारान् भूयस्तर-दुःखमऽनुभूय, क्षीण-दुष्कर्माणौ युवां जातौ । पूर्व-कर्मणा अस्मिन् भवेऽपि द्वा-दश-कोटिर्गमिता ।" " एवम् तद्-वचः श्रुत्वा, द्वाभ्यां श्राद्ध-धर्मं प्रतिपद्य, प्रायश्चित्त-पदे “सहस्त्र-गुणा द्वादश-द्रम्माः व्यापारा-ऽऽदौयावत् उत्पत्स्यते, तावत् ते ज्ञान-साधारण-पद एव अर्पणीयाः, ततः परम् उत्पन्नं धनम् स्व-निश्रितं कार्यम् ।" इति नियमो जगृहे । " ततः, द्वावऽपि प्राक्-कर्म-क्षयात् *धन-वृद्धिं प्राप्य, तन्मध्यात उभय-पदे सहस्रगुणं देयं समर्प्य च, क्रमात द्वा-दश-कोटि-भाजावऽभूताम् ।
2. [अति विलोक्यमानं लेख्यकं येन, सः तेन सह.] ६७ । 3. [सागर-श्रेष्ठि-कथाऽत्रैव २४ गाथा-वृत्ती । श्राद्ध-दिन-कृत्य-श्राद्ध-विधि-प्रभृतिषु प्रसिद्धैव ।] * मिलितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org