________________
१३०
७ - दृष्टांतद्वारम् । कर्मसार-पुण्यसार-दृष्टांतौ । [गाथा-६७
" अष्टमे वर्षे विज्ञोपाध्यायस्य पार्श्वे पठनाय तस्थतुः । " पुण्य-सारः सुखेन सर्व-विद्या अधीतवान् । कर्म-सारस्य तु बहूपक्रमेणाऽपि अ-क्षर-मात्रं नाऽऽ*याति, वाचन-लिखनाऽऽदौ तु किं वाच्यम् ? " ततः, पशु-प्रायत्वात् तस्य पाठकेनाऽपि पाठनं मुक्तम् । क्रमेण द्वावऽपि यौवन-स्थौ पितृभ्यां समृद्धतया सु-लभे महेभ्य-कन्ये सोत्सवं परिणायितौ । " “मा मिथः कलहेयाताम्", । इति द्वावऽपि द्वा-दश द्वा-दश-कनक-कोटीदत्त्वा, पृथक्-कृतौ । “अथ, कर्म-सारः स्व-जना-ऽऽदिभिर्वार्यमाणोऽपि-कु-बुद्धया तथा वाणिज्यं कुरुते, यथा अर्थ-हानिरेव स्यात् । एवम् स्व-ऽल्पैरेव दिनैः जनका-ऽर्पित-द्वा-दश-कोटयो गमिताः । " पुण्य-सारस्य तु द्वा-दश-कोटयः खात्रं दत्त्वा , तस्करैर्गृहीताः । तेन तावुभावऽपि दरिद्रौ जातो, त्यक्तौ च स्व-जना-ऽऽदिभिः । भार्ये अपि पितृ-गृहं गते । " ततः, “निर्बुद्धी" “निर्भाग्यौ" इति- लोकेर्दत्ता-ऽपमानौ लजमानौ गत्वा देशा-ऽन्तरम्, स्थितौ च पृथक् पृथग् महेम्य-गृहे । " तत्राऽपि अन्योपाया-5-भावात्- भृत्य-वृत्त्या यस्य गृहे कर्म-सारः स्थितः, सोऽपि- कृपणत्त्वात् तस्मै प्रोक्तं वेतनमऽपि न दत्ते, मुहुर्मुहुस्तं वञ्चयते । " इतः, बहुभिर्दिनैः आयेन किमऽपि नाऽर्जितम्, " द्वीतयेन कियदऽर्जितम् । परम् तत्- प्रयत्ल- गोपितमऽपि धूर्तेनाऽपहृतम् ।
ना-ऽऽयाति । किं बहुना वा ? यतः, लिखना-ऽऽद्यपि कर्तुं न शक्नोति, “सर्वथा
पशुरेव" इति-पाठकेनाऽपि० डे० । + कलहायताम्" इति । ४ गतौ देशा-ऽन्तरम् डे० । % सोऽलीक-व्यवहारी कृपणवच्च, इति प्रोक्तं । डे०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org