________________
१०२
६ - प्रायश्चितद्वारम् । अर्हद्वारम् ।
[गाथा-४७-४८
तथा, कल्पस्थितः- स्थविरा-ऽऽदि-कल्पा-ऽवस्थितः, अथवा, श्राद्ध-समाचारी व्यवस्थितः । तद-ऽन्यस्य हि अतिचार-विषया जुगुप्सैव न स्यात् । ४ 1 अना-ऽऽशंसी- आचार्या-ऽऽद्या-ऽऽराधना-ऽऽशंसा-रहितः,
सांसारिक-फला-ऽन-ऽपेक्षो वा । आशंसिनो हि समग्रा-ऽतिचारा-ऽऽलोचना-ऽसम्भवात्, आशंसाया एव अतिचारत्वात् । ५. प्रज्ञापनीयः- 'त्यक्त-हठः, गुरु-पारतन्त्र्यात्- सुखा-ऽवबोध्यः । तद-ऽन्यो हि स्वा-ऽऽग्रहात्, अ-कृत्य-विषयात् न निवर्तते । ६. श्राद्धः-श्रद्धाऽऽलुः, स हि गुरूक्तां शुद्धिं श्रद्धत्ते । ७. आज्ञा-ऽऽयत्तः- आप्तोपदेश-वर्ती,
स हि प्रायः अ-कृत्यं न करोत्येव । ८. "दुष्कृतेन- अतिचारा-ऽऽ-सेवनेन तप्यते-अनुतापं करोति' इत्येवंशीलः, दुष्कृत-तापी, *स एव हि- यथावत् तान् आलोचयितुं शक्नोति । ९ + तद्-विधि-समुत्सुकः- आलोचना-विधि-तत्पर एव,
स हि तद-5-विधिं प्रयत्नेन परिहरति । १० तथा, अभि-ग्रहा-ऽऽसेवना-ऽऽदिभिः द्रव्या-ऽऽदि-नियम- विधान विधापना ऽनुमोदना-प्रभृतिभिः, लिङ्गैः-आलोचना-योग्यता-लक्षणैः युतः ।११
3. जात-समाप्त-कल्पा-ऽऽदि-व्यवस्थितः । [पञ्चाशक-वृत्तिः) + नाऽस्तीदं डे० प्रतौ । x कल्प-व्यवस्थितः । * स हि तदाऽऽलोचयितुम् डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org