________________
९२
[गाथा-४३
५ - दोषद्वारम् । दुःसंसर्गस्त्याज्यः । जुआरि-वेस-तक्कर-भट्ठा-ऽऽयारा (-ऽऽइ) कु-कम्म-कारीणं । पासंडि-णिलवाणं, संसग्गं धम्मिओ चयइ ॥४३॥
संसर्ग-त्यागयोग्याः ।
"जुआरि-वेस०" त्ति, व्याख्याजुवारी-वेश्या-तस्कर-भ्रष्टा-ऽऽचारा-ऽऽदिलौकिक-लोकोत्तर-सदा-ऽऽचार-पतिताः,
ज्ञाति-बाह्याः, पार्श्व-स्था-ऽऽदयः, देव-द्रव्य-भक्षका वा । आदि-शब्दात् नट- नर्तक- धूर्त- व्याध- शौनिक' - धी-वराऽऽदि-ग्रहणम्, - "प्राकृतत्वात्-आकारः," कु-कर्म-कारिणाम्
संसार-वर्धका-ऽनेक-दुष्कृत-कृत्-पामर-जनानाम्, पाखण्डिनः-बौद्धाऽऽदयः, निवाः श्रुत-जीतोक्ता-ऽनुष्ठान-कारित्वे सति,
स्वा-रसिकोत्सूत्र-भाषिणः, प्रायः, प्रति-गृहीत-श्री-कारा-द्रव्य-साधवः । एतेन “लुम्पाक' -स्तनिका-ऽऽदयो निह्नवा न" इति-सिद्धम् ।
एषां च संसर्गम् संवास- सह-भोग- आ-लाप- सं-लाप- प्रशंसा-5ऽदिरूपम् संस्तवम्, श्री चन्द्र-कुमारवद्
संसर्ग-व्याख्या।
1. शौनिकः- पश्वा-ऽऽदिकं हत्वा मांस-विक्रेता । । 2. आगम-व्यवहारेणैवम् । 3. "द्रव्यतोऽपि- तीर्थ-बाह्याः ।" इत्य-ऽर्थः । 4. [अस्य वाक्यस्य कोऽर्थः ? “न निवत्वम्" इति ? “निह्नवत्वादऽपि अधिकदोष
वत्त्वम् ? वेषा-ऽन्तर-कल्पना-ऽऽदि-दोषवत्त्वात्," इति वा ? बहु-श्रुतेभ्यो ज्ञेयोऽस्याऽर्थः]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org