________________
५ - दोषद्वारम् । अन्येषामऽपि मतम् । [ गाथा-२९-३० “ ततः, चिरं कालम् त्रस-स्थावर-योनिष्वऽ-भ्रमत् ।।१६।। " ततः, कुरुक्षेत्रे, गज पुरे, कपिल-'वाडव-गृहे, अनुदरा तत्-प्रिया-गर्भेऽवतीर्णः । " तदानीम्, अवशिष्ट-पापा-ऽनुभावात् पिता मृतः, जन्म-समये जनन्यऽपि मृता, लोकैः "गौतमः" इति नाम दत्तंच। “ ततः, मातृ-ष्वस्रा कष्टात् वर्धितोऽसौ । यौवना-ऽभिमुखः आहारा-ऽर्थम् गृहे गृहेऽटन् क्षीण-देहः भोजनमऽपि न लब्धवान् ।१७। " अन्यदा,- समुद्र-सेना- ऽऽख्यं मुनिम् अशना-ऽऽदिना सत्कृतम् सन्मानितं दृष्ट्वा, भोजना-ऽभिलाषेण तत्-पार्वे सा-ऽनुग्रहम् सः दीक्षां जग्राह । क्रमेण, श्रुत-पार-गामी भाव-साधुर्जातः । तद्-गुरुस्तु- मध्य-ग्रैवेयके अहमिन्द्रोऽभूत् । “ सोऽपि सूरि-पदं लब्ध्वा, यति-श्रावकैः पूजितः मध्य-11 ग्रैवेयके- तपो-बलात्- 'सुरोऽभूत् ।१८। " ततश्च्युत्वा, अत्र अन्धक-वृष्णि-नामा नृपस्त्वं, यदु-वंशेऽभूत् ।१९। “ अथ, अस्मिन्नेव भवे संयमं गृहीत्वा, मुक्ति-पदं लप्स्यसे ।" इति दिक्-पट-कृत-हरि-वंश-पुराणे, वसु-देव-हिण्डी- प्रथमखण्डे च । (मु० पु० पृ० ११२) एवम्, बाह्या अपि दोष-सम्भवं प्रचक्षन्ते । "पुराणा-ऽऽदौ,:"देव-द्रव्येण या वृद्धिगुरु-द्रव्येण यद् धनम्, तद् धनं कुल-नाशाय, मृतोऽपि नरकं व्रजेत् ॥१॥
[श्राद्ध-दिन-कृत्ये १३३ 8. [त्रस-स्थावर-योनिष्वऽनेक-भवाःसजाताः, तेषां सङ्ग्रहेणैकत्वेन प्रतिपादनम् ।। 9. मगध-देशे, सुर-ग्रामे, इति वसु-देव-हिण्डौ । 10. “लोकैश्च-“गोतमः" इति नाम दत्तम् ।" इति पाठः समीचीनः प्रतिभासते ।) 11. १५९० [सहस्र] वर्ष कृत-श्रामण्यः, महा-शुक्रे सामानिक-सुरोऽभूत् ।" इति
वसु-देव-हिण्डौ । + ०वाडवः । अनु० डे० । * वेदा-ऽन्ते डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org