________________
७२
४ - गुण-द्वारम् । सागरश्रेष्ठि दृष्टांतः । [ गाथा-२३-२४
“ अन्यदा, महा-ऽटव्याम- स-प्रत्ययम्- सेलक-यक्ष-प्रासादं प्राप्य, एका-ऽग्रतया तमाऽऽराधयामास स्व-दुःख-निवेदनपूर्वकम् । ततः, एक-विंशत्योपवासैश्च- तुष्टो यक्षः प्राऽऽह :" "भद्र ! सन्ध्यायाम्- मम पुरः- "सु-वर्ण-चन्द्रा-ऽलङ्कतो महान् मयूरो नृत्यं करोति,* प्रति-दिनं च पतितानि कनक-पिच्छानि त्वया ग्राह्याणि ।" " ततः, हृष्टेन तेनाऽपि कियन्त्यऽपि गृहीतानि, एवं च प्रत्य-ऽहं गृह्णन्, नव-शती पिच्छानां प्राप्ता, शतमेकं शेषं तिष्ठति । " तदानीम् दुष्कर्म-प्रेरितेन तेन “एतद् ग्रहणाय कियद् दिवसं चाऽरण्ये स्थातव्यम् ? । “ तद्, वरम् एक-मुष्ट्यैव सर्वाऽपि गृह्णामि ।" इति विचिन्त्य, तद्-दिने नृत्यन्-मयूरस्य तानि एक-मुष्टयैव गृहीतुम् यावत् प्रवृत्तः, तावत् केकी काक-रूपः समुड्डीय, गतः । पूर्वम् गृहीत-पिच्छान्यऽपि नष्टानि । " ततः, “धिग्, मया मुधैवौत्सुक्यं कृतम्,” इति-विषण्णः इतस्ततो भ्रमन् ज्ञानिनं मुनिं दृष्ट्वा, नत्वा च स्व- कर्म-स्व-रूपं पप्रच्छ । " तेनाऽप्युक्तम् यथा-ऽनुभूतं प्राग्-भव-स्व-रूपम् । ततः, देवद्रव्योपजीवन-प्रायश्चित्तं ययाचे । “ मुनिनाऽप्युक्तम्, :- “समऽधिकं तावद् देवाय देयम् ।" " ततः, तेन “सहस्रगुण-देव-द्रव्या-ऽवधिम्, स्व-निर्वाह- मात्राऽधिकं स्व-ऽल्पमऽपि वस्त्रा-ऽऽहारा-5ऽदि न ग्राह्यम् ।" इति नियमो जगृहे । “ ततः, यद् यद् व्यवहरति, तत्र बहु-द्रव्यमऽर्जयति । एवम् स्व-ऽल्पैर्दिनैः प्रागुपजीवित-सहस्र-काकिणी-स्थाने काकिणी-लक्ष-दशकं प्राऽदात् । ततः, देवस्याऽनृणीभूतोऽसौ
क्रमात् अर्जित-प्रभूततर-द्रव्यः स्व-पुर-प्राप्तो *महेभ्यो जज्ञे । 11. (पांख) [सु-वर्ण-मय-चन्द्रक-युक्त-पिच्छका-ऽलङ्कृतः । ] । - करिष्यति डे० । * महेभ्यः स्वयं-कारितेषु डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org