________________
३६८ षोडशं षोडशकम्
8 स्मृति-पुराण-बौद्धग्रन्थादिनाऽपि कर्मसिद्धिः 8 = पुरुषैः भव-भवविगमनिबन्धनं = संसार-मोक्षकारणं आलोच्यं = सम्यग भावनीयं शान्तचेतोभिः = अरवतद्धिष्टचित्तैः ॥१६/१|| ननु चागमप्रामाण्यमवलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं वा यदेष्यते तदा को दोष: ? आगमानुसारेणैव युक्तिप्रवर्तनस्य ज्याय्यत्वादित्यत आह -> 'ऐदम्पर्यमित्यादि । ऐदम्पर्य शुध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥१६/१२॥
= कल्याणकन्दली - वचनमपि पुण्यपापलक्षणस्याऽदृष्टापराभिधानस्य कर्मणोऽनुपगमे न सङ्गतिमङ्गेत् । कर्म-पुण्य-भाग्यादेः पर्यायत्वात् यथोक्तं -> भाग्यानि पुण्यानि यमः कृतान्तः पर्यायनामानि पुराकृतस्य - [ ] इति । इत्थमेव -> तथैवात्मनि कर्माणि तिष्ठन्ति भरतर्षभ !<- [२/६७] इति इतिहाससमुच्चयवचनमपि उपपद्यते । प्रकृते -> शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजा गतयो नृणामत्तमाधममध्यमाः ।। - [१२/३] इति मनुस्मृतिवचनं, -> अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ -- [३/१३०] इति याज्ञवल्क्यस्मृतिवचनं, -> कर्मणा बध्यते जन्तुः विद्यया च विमुच्यते' - [९/८/५३] इति कूर्मपुराणवचनं, -> अविद्यासश्चितं कर्म तच्चाशेषेषु जन्तुषु -- [२/१३/७०] इति विष्णुपुराणवचनं, -> यथा छायातपौ नित्यं सम्बद्धौ च परस्परम् । तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परम् ।। - [२/८१/५१] इति पद्मपुराणवचनं, -> नो मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनः । शोधयन्ति बुधाः कर्म ज्ञानध्यानतपोजलैः ।। -- [३८/११] इति मत्स्यपुराणवचनं, -> 'कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः । वशिष्ठदत्तलग्नोऽपि रामः प्रव्रजितो बने ।। - [अरण्यकाण्ड- अ.९/१५] इति आध्यात्मिकरामायणवचनं, -> ‘एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् <- [११/३/२७] इति श्रीमद्भागवतवचनं, -> कश्चिद् धनी दरिद्रश्च कश्चिदेव हि कर्मणा - [१/३/२२] इति नारदपञ्चरात्रवचनं, -> तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा । फलत्यथ सुखार्हो वा दुःखार्हो वाऽथ जायते ॥ - [वनपर्व २३०/७८] इति च महाभारतवचनमपि संवदन्ति । तत्रैव -> यथा धेनसहरोष वत्सो विन्दति मात कर्म कर्तारमनुधावति ।। - [१८१/१६] इत्युक्तम् । एवं -> कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। - [को.सं.२३/३९] इति शिवपुराणवचनमपि निकाचितकर्मापेक्षया सङ्गच्छत एव ।
बौद्धदर्शनेऽपि कर्म सम्मतमेव, तदुक्तं धम्मपदग्रन्थे -> न अन्तलिक्खे न समुद्दमझे न पचतानं विवरं पविस्स । न विज्जती सो जगतिप्पदेसो यत्रट्ठितो मुञ्चेय्य पापकम्मा ।। - [९ पापवर्ग/१२], -> कम्मविपाकेन इदं दुक्खं निगच्छति
- [४/१६/७] इति पेतवत्थुग्रन्थे -> नानाकम्मेहि महाराज ! निब्बत्तानि, न एकेन कम्मेन «- [परि.३ विमतिच्छेदनपञ्होपृ.६८] इति मिलिन्दप्रने, -> कम्मना बत्तती लोको कम्मना बत्तती पजा । कम्मनिबंधना सत्ता रथस्साणीव यायतो ।। - [महावग्ग ३, ९ वासेट्ठसुत्त- श्लो.६०] इति सुत्तनिपाते महावग्गे, -> एवं कम्मे विपाके च वत्तमाने सहेतुके बीजरुक्खादिकानं व पुब्बा कोटि न नायति || - [१९/२०-पृ.४२६] इति विद्धिमग्गग्रन्थे, -> कर्मजं लोकवैचित्र्यम्
-कर्मनिर्देश ४/का.१] इति अभिधर्मकोशे, -> कर्माणि हि कुशलाकुशलादीनि भवन्ति, तेभ्य एवं लोके वस्तूनामुत्पादः, इत्थं हेतवैचित्र्यात फलवैचित्र्यम् -[प्र.८५] इति च अभिधर्मकोशनालन्दिकायां । मज्झिमनिकायेऽपि -> कम्मस्स विपाकेन बहूनि वस्सानि, बहूनि वस्ससतानि, बहूनि वस्ससहस्सानि निरये पच्चेय्यासि - [अङ्गुलिमालसुत्त-३०६] इत्युक्तम् । एवं -> इत एकनवतौ कल्पे शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ।। - [ ] इति स्वशिष्यान् प्रति बौद्धोक्तिरपि कर्मसाधिकैवेति दिक ।।१६/११॥
___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्र ऐदम्पर्य शुध्यति असौ आगमः सुपरिशुद्धः । तदभावे अन्यथाग्रहणात् तद्देशः कश्चित् स्यात्, ॥१६/१२।।
એવું રાગ-દ્વેષરહિત ચિત્તવાળા મતિધન પુરુષોએ નિયમ સમ્યમ્ રીતે વિભાવન-ચિંતન કરવું જોઈએ. [૧૬/૧૧].
અહીં એવી શંકા થાય કે – આગમના પ્રામાયનું અવલંબન કરતા પુરુષો જ્યારે પુરુષાત કે જ્ઞાનાતને સ્વીકારે ત્યારે શું દોષ સંભવે ? આગમના અનુસારે જ પ્રવર્તતી યુક્તિ ઉચિત છે. તિથી અદ્વૈતવાદસ્થાપક આગમને પ્રતિકૂળ તમે જે દલીલ કરી છે તે વ્યાજબી નથી.] - તે તેના સમાધાન માટે ગ્રંથકારથી જણાવે છે કે –
ગાથાર્થ :- જ્યાં ઔદંપર્ય શુદ્ધ થાય તે આગમ સુપરિશુદ્ધ જાણવા. તે ન હોય તો અન્ય પ્રકારે ગ્રહણ કરવાના લીધે મૂલાગમનો તે કોઈક એક દેશ-ભાગ બને. [૧૬/૧૨]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org