________________
३६० षोडशं षोडशकम्
8 एकान्तनित्यत्वानित्यत्वादिनिराकरणम्
=
आत्मनि = जीवे सति अभ्युपगम्यमाने सति, मुक्तिवादिनामात्मसत्तायामविप्रतिपत्तेः 'तन्नित्यत्वक्षणिकत्वादावेव विप्रतिपत्तेः तन्निरासायेदं विशेषणम् । तैः तैः ध्वनिभिः = शब्दैः वाच्यं • अभिधेयं एतत् = प्रागुक्तं अविद्यारहिताऽवस्था-वैशेषिकगुणरहितपुरुष- पशुत्वविगमादि अथवा तैः तैः ध्वनिभिः वाच्यं सम्यग्दर्शन - ज्ञान - सदनुष्ठानादिप्रकरणोक्तं एतत् अखिलं स्यात् = सम्भवेत् । अर्थान्तरे च = आत्मभिन्ने च तत्त्वे = पदार्थे अविद्यादौ = अविद्याऽ
कल्याणकन्दली
धर्मान्तरोत्पत्तिः परिणामः <- - [पातं.यो.सू. ३/१३ - भा. पृ. २९२] इत्युक्तं, तदपि द्रव्यत्व - सत्त्वादिना द्रव्यस्याऽवस्थितत्वमावेद| यति । घटत्व-कपालत्व- शिवकत्वादि-पूर्वधर्मवत्त्वरूपेण द्रव्यस्याऽनवस्थितत्वानभ्युपगमे तु तन्न सङ्गच्छते, 'घटत्वेनायं मृत्पिण्ड आसीत्' इत्यत्र लङ्प्रत्ययानुपपत्तेरित्यधिकं निरूपितमस्माभिः जयलतायाम् [म.स्या. रहस्य प्रथम खण्ड पृ. १०] ।
केचित्तु प्रकृतेः अन्यथाभावः परिणाम इत्याहुः । उपादानसलक्षणत्वे सत्यन्यथाभावः परिणाम इत्यन्ये । पूर्वरूपपरित्यागे सति नानाकारप्रतिभास: परिणाम इत्यपरे । वेदान्तिनस्तु उपादानसमसत्ताकत्वे सति अन्यथाभावः परिणामः, विवर्त - वारणाय सत्यन्तम्, घटस्य तन्तुपरिणामत्ववारणाय विशेष्यमित्याहुः । तस्मिन् = परिणामिनि आत्मनि एतत् अखिलं | सम्भवेदिति सम्बन्धः । तदुक्तं योगबिन्दौ -> परिणामिन्यतो नीत्या चित्रभावे तथाऽऽत्मनि । अवस्थाभेदसङ्गत्या योगमार्गस्य सम्भवः || ४९० || - इति ।
मुक्तिवादिनां नैयायिक-वैशेषिक- साङ्ख्य बौद्धादीनां नास्तिकव्यतिरिक्तानां आत्मसत्तायां अविप्रतिपत्तेः नात्रात्मसिद्धिप्रयासः, नैयायिक- बौद्धादीनां तन्नित्यत्वक्षणिकत्वादावेव विप्रतिप्रत्तेः तन्निरासाय = आत्मन एकान्तनित्यत्वैकान्तानित्यत्व प्रति| क्षेपाय इदं = 'परिणामिनि' इति विशेषणं गृहीतम् । अध्यात्मकमलमार्तण्डेऽपि नित्यं त्रिकालगोचरधर्मत्वात् प्रत्यभिज्ञतस्तदपि । क्षणिकं कालविभेदात् पर्यायनयादभाणि सर्वज्ञैः ॥ ← [ ३ / २५] इत्येवं नित्यत्वानुविद्धानित्यत्वमुपदर्शितम् । एकान्तनित्यत्वे कर्तृत्व- भोक्तृत्वानुपपत्तिः, तदुक्तं योगबिन्दौ एवमेकान्तनित्योऽपि हन्तात्मा नोपपद्यते । स्थिरस्वभाव एकान्ताद् यतो नित्योऽभिधीयते || ४७८ || तदयं कर्तृभावः स्यात् भोक्तृभावोऽथवा भवेत् । उभयानुभयभावो वा सर्वथाऽपि न युज्यते ||४७९|| एकान्तकर्तृभावत्वे कथं भोक्तृत्वसम्भवः । भोक्तृभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् ॥ ४८० || न चाकृतस्य भोगोऽस्ति | कृतञ्चाभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवी ध्रुव ||४८१ ॥ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः || ४८२|| - इत्यादि । एवमेकान्तक्षणिकत्वेऽपि तस्य द्वितीयक्षणे सर्वथोच्छेदेन हेतोरभावान्नोत्तरक्षणप्रसूतिः सम्भवति, अन्यथा पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्योत्तरकार्यतया भवनेनान्वयः समाढौकते । तदुक्तं योगबिन्दी -> क्षणिकत्वं तु नैवास्य क्षणादूर्ध्वं विनाशतः । अन्यस्याभावतोऽसिद्धेरन्यथाऽन्वयभावतः || ४६८ ।। एवं कृतनाशाऽकृताभ्यागमादि| दोषजालमप्येकान्तक्षणिकत्वे दुर्वारमित्यवोचाम जयलतायाम् [स्याद्वादरहस्यटीका प्र. खं. पृ. १४५] |
आत्मभिने अविद्याsदृष्ट-संस्कारादिपदवाच्ये । वेदान्तिभिः अविद्यापदेन, वैशेषिकादिभिः अदृष्टशब्देन, सौगतैः संस्काराभिधानेन, वेदवादिभिः पुण्याद्याख्यया, मीमांसकैरपूर्ववाचकेन, गणकैः शुभादिपर्यायेण, साङ्ख्यैः धर्मादिनाम्ना, शैवैः पाशा| ख्यानेन; स्याद्वादिभिरस्माभिः कर्मसंज्ञया, लोकैः दैव-विध्यादिध्वनिना, कैश्चित् अतिशयवचनेन, अन्यैः शक्तिव्यपदेशेन, परैः बीजापदेशेन, अपरैः क्लेशसङ्केतेन, इतरै: मायाप्रातिपदिकेन यत् प्रतिपाद्यते तस्मिन् परमार्थतो विद्यमाने एव प्रागुक्तं अखिलं सम्भवेत् । तच्च कालान्तरभाविफलानुकूलविहितनिषिद्धक्रियाजन्यभावव्यापाररूपमिति अदृष्टसिद्धिवादे [१] प्रोक्तम् । कर्म च | कर्तारमनुगच्छति । तदुक्तं श्रीसिद्धसेनदिवाकरैः द्वात्रिंशिकाप्रकरणे -> न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्य| श्नुते । तदष्टधा पुद्गलमूर्त्तिं कर्मजं यथाऽऽत्थ नैवं भुवि कश्चनाऽपरः । — [१ / २६] इति । व्यवच्छेद्यमाह- न तु सांवृतसत्त्वेन કહેવાય. જીવ આવો પરિણામી સ્વીકારવામાં આવે તો જ પૂર્વોક્ત અવિદ્યારહિત અવસ્થા, વૈશેષિકગુણરહિત પુરુષ, પશુદ્ઘવિગમ વગેરે બધું ઘટી શકે. અથવા સમ્યગ્દર્શન, સમ્યજ્ઞાન, સદનુષ્ઠાન વગેરે પ્રકરણોમાં જણાવેલ તે તે શબ્દોથી વાચ્ય બધું સંભવી શકે. આત્માનું ‘પરિણામી' આવું વિશેષણ લગાડવાનો મતલબ એ છે કે તે લોકો મોક્ષને સ્વીકારે જ છે. પરંતુ ‘આત્મા છે કે નહિ ?' આવો કોઈ વિવાદ છે જ નહિ. સર્વમુક્તિવાદીઓ આત્મસત્તાને સ્વીકારે જ છે. પરંતુ ‘આત્મા નિત્ય છે કે ક્ષણિક ?’ આ બાબતમાં જ વિવાદ છે. એકાંત નિત્યતા અને સર્વથા ક્ષણિકતાનું નિરાકરણ કરવા માટે ‘પરિણામી’ એવું આત્માનું વિશેષણ જણાવેલ છે. તેમ જ અવિદ્યા, અષ્ટ, સંસ્કાર વગેરે શબ્દથી વાચ્ય કર્મ જો આત્માથી ભિન્ન હોય અને વાસ્તવિક = પરમાર્થથી વિદ્યમાન હોય તો જ ઉપરોક્ત બધું ઘટી શકે. સાંવૃતસત્યરૂપે કે જે બૌધ્વસંમત છે] અવિદ્યા વગેરેનો સ્વીકાર કરવામાં આવે १. मुद्रितप्रती 'तस्मिन्नित्य... इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org