SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॐ बलात्कारेण योगकरणं मोघप्रयोजनम् 8. 'रुजी'त्यादि । रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ॥१४/१०॥ रुजि = रोगे चित्तदोषे सति निजजातेः - अनुष्ठानसामान्यस्य उच्छेदात् करणमपि हि अस्य = प्रस्तुतार्थस्य नियमात् नेष्टसिद्धये - जानिमतसम्पादनाय इति = हेतोः अननुष्ठानं = अकरणम् । तेन कारणेन एतत् : करणं वन्ध्यफलमेव, इष्टफलाभावात् । इयं हि रुग भङ्गरूपा पीडारुपा वा अनुष्ठाजजात्युच्छेदकत्वात् सर्वकृतानुष्ठानवन्ध्यत्वाऽऽपादिकेति विवेकिना परिहर्तव्या । अथ भङ्गरूपायाः पीडारूपाया वा रुजः शक्तौ सत्यामपरिहार: पुरुषस्य स्वतन्त्रं दोषान्तरं तत्र 'अव्यापृतानामजुष्ठानानां तु कोऽपराधः इति चेत् ? न, यदनुष्ठानव्यासोज पुरुषस्य रुक्परिहारोपायानुपयोगस्तत्र - कल्याणकन्दली - प्रवहमाने प्रकृतानुष्ठाने प्रकृतान्य-विहिताविहितकर्मगोचरोद्भूतोत्कटाभिलाष एवान्यमुत्पदवाच्यः इति तावद् वयं विद्मः ।।१४/९॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> रुजि निजजात्युच्छेदात् अस्य करणं अपि हि नियमात् न इष्टसिद्धये इति अननुष्ठानम् । तेन एतत् वन्ध्यफलमेव ॥१४/१०॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [२०] समुद्भूता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> रुजि सम्यगनुष्ठानोच्छेदाद् बन्ध्यफलं हि तत् - [द्वा.दा.१८/२०] इत्युक्तम् । _ अनुष्ठानसामान्यस्य = सदनुष्ठानत्वस्य उच्छेदात् = प्रच्यवात् प्रस्तुतार्थस्य करणं क्वचित् वस्त्वन्तरसाधकं सत् अपि हि नियमात् = निश्चयेन नाभिमतसम्पादनाय = न परमार्थसाधनाय भवति । 'इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु <- [ह.को.५/८८७) इति हलायुधकोशवचनात् इति = हेतोः बाह्याकृत्या करणेऽपि तत्त्ववृत्त्या अकरणम् । तेन कारणेन बहिर्वृत्त्या बलात्कारेण करणं वन्ध्यफलमेव = मोघप्रयोजनमेव, अनुबन्धशक्तिविरहेण इष्टफलाभावात् । अनुष्ठानजात्युच्छेदकत्वात् = अनुष्ठानत्वविच्छेदकारित्वात् सर्वकृतानुष्ठानवन्ध्यत्वापादिका = सर्वेषां कृतानामनुष्ठानानां मोघत्वाक्षेपिका । न | हि कारणतावच्छेदकशून्येन कारणवदाभासमानेन कार्योत्पत्तिः युक्ता, अन्यथा कार्यकारणभावभङ्गापातात् । इति हेतोः इयं रुग् विवेकिना = क्षायोपशमिकगुणोदयिकगुणदोषभेदवेदिना सर्वादरेण परिहर्तव्या । प्रभायां दृष्टावयं दोषो नास्ति । अथ निश्चयनयेन सर्वतो भङ्गरूपायाः निश्चयानुगृहीतव्यवहारनयेन देशतो भङ्गरूपायाः नैगमादिनयेन च पीडारूपाया रुजः स्वस्मिन् शक्ती = रुगपनायकशक्तौ सत्यां अपरिहारः पुरुषस्य अनुष्ठानकारकस्य स्वतन्त्रं दोषान्तरं भवतु । तत्र न नो विरोधः । किन्तु तत्र = रुग्दोषे अव्यापृतानां = अप्रवृत्तानां स्वसामग्रीवशात् उत्पन्नानां अनुष्ठानानां तु कोऽपराधः ? येन तेषां वन्ध्यफलत्वमापाद्यते अनुष्ठानत्वञ्चापाक्रियते तत्रभवद्भिः भवद्भिः इति चेत् ? न, यदनुष्ठानव्यासङ्गेन = यत्कर्मालम्बनेन पुरुषस्य रुक्परिहारोपायानुपयोगः = रुगपाकरणोपायानामव्यापार: तत्र = आलम्बनीभूतानुष्ठाने रुग्दोषस्य न्यायप्राप्त आवे छ -> HinBRA भागे २, बी मे ॥ ३. ४ अर्थमा शीमे ३, अं॥रानो १६ ३.] «- [१४/4] a ઉપાસનામાં રોગ દોષ નિવારો ગાચાર્ય :- રોગ દોષ હોય ત્યારે પોતાની જાતિનો ઉચ્છેદ થવાથી આ અનુષ્ઠાન કરે તો પણ નિયામાં ઈટસિદ્ધિ માટે થતું નથી. માટે તે અનનુમાન = અકરણ જ જાગવું. તે કારણે આ નિષ્ફળ જ છે. [૧૪/૧૦] ટીકાર્ય :- રોગ નામનો ચિત્તદોષ હોય ત્યારે અનુષ્ઠાનસામાન્યનો = અનુષ્ઠાનની પોતાની જાતિનો = અનુષ્ઠાનપણાનો ઉચ્છેદ થાય છે. માટે પ્રસ્તુત અનુટાનને કરે તો પણ નિયમ અભિમત અર્થની સિદ્ધિ માટે થતું નથી. એ હેતુથી એ અનનુષ્ઠાન જ કહેવાય. [અનુકાન ન કર્યું જ કહેવાય.) તે કારણે એ નિષ્ફળ જ જાણવું, કારણ કે એનાથી ઈટ ફળ મળતું નથી. આ રોગ દોષ ભંગસ્વરૂપ કે પીડા સ્વરૂપ છે, કારણ કે કરેલા સર્વ અનુષ્ઠાનોમાં અનુષ્ઠાનપણાનો તે નાશ કરે છે અને અનુષ્ઠાનને નિષ્ફળ બનાવે છે. માટે વિવેકી વ્યક્તિએ રોગ દોષનો ત્યાગ કરવો જોઈએ. શંકા :- શક્તિ હોવા છતાં ભંગસ્વરૂપ કે પીડા સ્વરૂપ રોગ દોષનો પરિહાર ન થાય તો તે વ્યક્તિનો તે સ્વતંત્ર બીજે દોષ થયો. પરંતુ એ દોષમાં પ્રવૃત્ત ન થયેલા અનુકાનોનો શું દોષ છે ? તે અનુકાનો કોઈ પ્રસ્તુત દોષને ઉદ્દેશીને થતાં નથી કે જેના લીધે અનુષ્ઠાનપણાનો જ ઉચ્છેદ થઈ જાય છે.]. સમાઘાન :- તમે કહ્યું તેમ નથી. કારણ કે જે અનુકાનના ઓઠા નીચે સાધક પુરુષ રોગ દોષને ટાળવાનું ખ્યાલ નથી १. मुद्रितप्रती 'व्या....' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004834
Book TitleShokshaka Prakarana Part 2
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages250
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy