________________
लक्षणव्युत्पत्तिविचारः 88
तृतीयं धर्मलक्षणषोडशकम्
राद्धर्मदेशनाविधिरुवतः । अथ धर्मस्यैव स्वलक्षणमभिधित्सुराह - अस्येत्यादि ।
अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् । सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम् ॥३/१॥
3
अस्य धर्मस्य लक्ष्यते तदितरव्यावृत्तं वस्त्वनेनेति लक्षणं, स्वच तल्लक्षणच = स्वलक्षणं इदं वक्ष्यमाणं बुधैः सदैव विज्ञेयं, लक्षणस्य कदाऽप्यपरावृत्तेः । स्वलक्षणं कीदृशम् |? सर्वेरागमैः परिशुद्धं, सामान्यतः तस्य सार्वतन्त्रिकत्वात् । तथा यत् स्वलक्षणं आदि-मध्यान्तेषु कल्याणं अन्तरालाऽप्राप्तेः सदा सुन्दरमित्यर्थः ॥ ३ / १॥
V
कल्याणकन्दली
--->
=
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् बुधैः अस्य धर्मस्य स्वलक्षणं इदं सदैव विज्ञेयम्, यत् सर्वागमपरिशुद्धं, आदि-मध्यान्तकल्याणम् ||३ / १ || लक्षणपदस्य व्युत्पत्तिमाह - लक्ष्यते ज्ञायते तदितरव्यावृत्तं स्वेतरभिन्नत्वेन रूपेण वस्तु अनेनेति लक्षणं = लक्षणस्य व्युत्पत्तिः । निशीथचूर्णिकारस्तु -> लक्खिज्जति ताण सरूवो जेण तं लक्खणं <- (नि.भा. ६४८३) इत्याचष्टे । अव्याप्त्यतिव्याप्त्यसम्भवदोषत्रितयशून्यं लक्षणस्य लक्षणमित्येके । लक्ष्यतावच्छेदकसमव्याप्तत्वं तदितीतरे । कर्मधारयसमास विग्रहप्रदर्शनेन स्वलक्षणं = स्वस्वरूपभूतं लक्षणमित्यर्थः, न तु सास्नादिमत्त्वादेर्गोलक्षणादेरिव स्वाश्रयैकदेशवृत्तित्वम् । रत्नाकरावतारिकोक्तदिशा [रत्ना. अव. ७ / ५६ ] स्वभावस्य कादाचित्कत्व शाश्वतिकत्वभेदेन द्विविधत्वेऽपि लक्षणं लक्ष्यानतिरिक्तान्यूनसत्ताकमेकविधमेव, लक्षणस्य कदाऽप्यपरावृत्तेः यथा 'उष्णस्पर्शवत्तेजः' इति यद्वा 'रूपिणः पुद्गलाः' इति । स्वलक्षणं = प्रकृते सर्वकालीनं धर्मसम्बन्धि - स्वलक्षणं कीदृशं किंस्वरूपं स्यात् ? इत्याशङ्कामपाकर्तुमुपक्रमतेसर्वागमपरिशुद्धं सर्वैरागमैः परिशुद्धं = अबाधितं, न तु केवलं स्वाभ्युपगतेनागमेन परिशुद्धम् । कुतः ? उच्यते, सामान्यतः = धर्माभिलापमात्ररूपमाश्रित्य तस्य = धर्मस्य सार्वतन्त्रिकत्वात्
सर्वैरेव तन्त्रैः स्वीकृतत्वात् ।
स्वलक्षणं आदिमध्यान्तकल्याणं
नन्वेवं सति धर्मस्वलक्षणमसम्भवग्रस्तमेव, जैन- साङ्ख्य-योग-योग- वेदान्तप्रभृतितन्त्रैः परिशुद्धत्वेनाभिमतस्य धर्मस्वलक्षणस्य लोकायतिकतन्त्राऽऽजीवकतन्त्रादिभिर्बाधितत्वात् तैः परिशुद्धत्वेनाभिमतस्य च धर्मस्वलक्षणस्य जैन - साङ्ख्य-योग-योग-वेदान्तप्रभृतितन्त्रैर्बाधितत्वादित्याशङ्कायामाह यत् आदि-मध्यान्तेषु कल्याणं, कदापि | अन्तरालाऽप्राप्तेः = कालिकान्तरविरहेण सदा सुन्दरमित्यर्थः, लोकायतिकप्रभृतितन्त्रैः परिकल्पितस्य धर्मस्वलक्षणस्य केवलमादावेव | चारुत्वेन प्रतिभासेऽपि सर्वदा सुन्दरत्वाभावात् । यद्वाऽऽद्ये मध्यमे चरमे च वयसि कल्याणस्वरूपम्, यद्वा श्रोतुः प्राथमिकमाध्यमिक-प्रकृष्टधर्मदशानुरूपं सुन्दरम्, यद्वा शास्त्रस्याऽऽदौ मध्येऽन्ते च चारुरूपम्, यद्वाऽऽद्यभूमिकायां विकासशीलावस्थायां प्रकृष्टविकसितदशायाञ्च सुन्दरमित्यर्थः । एतावता धर्मस्वलक्षणस्य लक्षणमभिहितम् ।
वस्तुतस्तु त्रैकालिककल्याणकारित्वादेव सर्वागमपरिशुद्धिर्धर्मस्वलक्षणस्य विज्ञेया । अतः 'सर्वागमपरिशुद्धमि' त्यस्य રતિદામિની (ગુજરાતી વ્યાખ્યા)
દ્વિતીય પોડશકમાં સદ્ધર્મની દેશનાનો વિધિ કહેવાયો. હવે ધર્મના જ વિશેષ લક્ષણને મૂલકારથી જણાવે છે કે F ગાથાર્થ :- પંડિતોએ આ ધર્મનું નિજ લક્ષણ એ જ હંમેશા સદૈવ જાણવું કે જે સર્વાંગમથી પરિશુદ્ધ હોય તથા આદિ, મધ્ય અને અંતકાલે કલ્યાણસ્વરૂપ હોય. [૩/૧]
धर्मनुं पंडितगम्य लक्षण ठेवु होय ?
=
Jain Education International
=
=
=
६५
=
For Private & Personal Use Only
=
टीडार्थ :- स्वेतरथी भिन्न = વ્યાવૃત્તરૂપે વસ્તુ જેના વડે જણાય તેને લક્ષણ કહે છે. [જેમ કે સાસ્નાદિમત્ત્વ વડે ગાય બકરીથી વ્યાવૃત્તત્વેન = ભિન્નરૂપે જણાય છે. અર્થાત્ ‘સાસ્નાદિમાન્ હોવાથી આ ગોભિન્ન બકરી વગેરે સ્વરૂપ નથી' આવો બોધ થવાથી સાસ્નાદિમત્ત્વ એ ગાયનું લક્ષણ કહેવાય.] ધર્મનું આ [જેને હમણાં કહેવામાં આવશે] સ્વલક્ષણ પંડિતોએ સદા માટે જ જાણવું, કારણ કે લક્ષણ ક્યારેય પણ બદલાતું નથી. [ગાયનું લક્ષણ ક્યારેક સાસ્નાદિમત્ત્વ અને ક્યારેક સફેદ ચામડી આવું ન હોય, લક્ષણ વૈકાલિક એક સ્વરૂપ જ હોય.] ધર્મનું સ્વાત્મક લક્ષણ કેવું હોય ?' આ સમસ્યાનું સમાધાન એ છે કે ધર્મસ્વલક્ષણ સર્વ [દર્શનોના] આગમોથી પરિશુદ્ધ [માન્ય અથવા અબાધિત] હોય, કારણ કે સામાન્યથી ધર્મ સર્વ દર્શનોનો વિષય છે. તથા ધર્મનું સ્વલક્ષણ તે હોય કે જે પ્રારંભે, મધ્યે અને અંતે કલ્યાણસ્વરૂપ હોય; મતલબ કે વચ્ચે કાલિક અંતર ન પડવાથી સર્વદા સુંદર હોય, આ બે શરતનું જેમાં પાલન થતું હોય તે ધર્મનું સ્વલક્ષણ બની શકે. [૩/૧]
વિશેષાર્થ :- સર્વ દર્શનકારો ધર્મનો અંગીકાર કરે છે. ભલે તેનું નામ બૌદ્ધ, જૈન, સ્વામીનારાયણ, વેદાન્ત વગેરે અલગ
www.jainelibrary.org