________________
५. द्वितीय-षोडशकम
8 गुरुभक्तिप्रभावेन तीर्थकद्दर्शनम् * तथाविधपुण्यसम्पत्त्या सर्वज्ञदर्शनसम्भवात् । तस्माच्च हेतोः मोक्ष इति = हेतोः 'गुरुपास्तन्यं साधुनाऽवश्यं विधेयमिति सोपस्कारं व्याख्येयम् ॥२/१०|| 'इत्यादि'इत्यादि।
। कल्याणकन्दली विधपुण्यसम्पत्त्या = तदुपात्तप्रकृष्टतादृशपुण्यविपाकेन समापत्त्यादिभेदेन सर्वज्ञदर्शनसम्भवात् । 'तस्माच्च = एवंविधात् गुरुपारतन्त्र्यात् मोक्ष' इति सुगमार्थकल्पनाकारः । वस्तुतस्तु 'तस्माच्च = सर्वज्ञदर्शनाच्च मोक्ष' इत्येवं मूलकृदभिमतमिति प्रतिभाति । इदमेवाभिप्रेत्य मूलकारैः योगदृष्टिसमुच्चये -> गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ <- [यो.स.६४] इत्युक्तम् । एतेन -> दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनं । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ <- [४/९] इति हठयोगप्रदीपिकावचनमपि व्याख्यातम्, सम्यग् गुरुभक्तिविनयबहुमानादेरेव गुरुकृपारूपत्वात् । गुर्वनुग्रहसहकृतयोगाभ्यासादितोऽपि सर्वज्ञदर्शनं सम्भवति । तदुक्तं योगशास्त्रे --> संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः सातसंवेगः, सर्वज्ञमुखपङ्कजम् ।। - यो.शा.८/५४] इति । गुरुतत्त्वमाहात्म्यञ्च योगशास्त्र एवं -> अथवा गुरुप्रसादात् इहैव तत्त्वं समुन्मिषति नूनम् । गुरुचरणोपास्तिकृतः, प्रशमजुष: शुद्धचित्तस्य ।। तत्र प्रथमे तत्त्वज्ञाने संवादको गुरुर्भवति । दर्शयिता त्वपरस्मिन् गुरुमेव सदा भजेत्तस्मात् ।। यद्वत्सहस्रकिरण: प्रकाशको निचिततिमिरमग्नस्य । तद्वद्गुरुरत्र भवेदज्ञानध्वान्तपतितस्य ॥ «- [प्र.१२/गा.१४/१५/१६] इत्युक्तम् । मनुस्मृती च -> गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते - (२/ २३३) इत्युक्तम् । इति = हेतोः तदुक्तं हलायुधकोशे --> इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु --- हला.को. ५/८८७] इति । ततश्च गुरुपारतन्त्र्यस्य निर्वाणैकनिबन्धन-सर्वज्ञदर्शनसम्पादकत्वात् गुरुपारतन्त्र्यं मोक्षाभिलाषिणा साधुना अवश्यं विधेयमिति सोपस्कारं = सतात्पर्यकं व्याख्येयम् । एवं --> सिंहगिरिसुसीसाणं भदं गुरुवयणसइहंताणं । वयरो किर दाही वायण त्ति, न वि कोविअं वयणं । मिण गोणसंगुलीहिं गणेहि वा दंतचक्कलाई से । इच्छं ति भाणियब्वं कज्जंतु त एव जाणंति || कारणविऊ कयाइ सेयं कायं वयंति आयरिया । तं तह सद्दहिअव्वं, भविअव्वं कारणेण तहिं ।। ८- [उप.मा.९३/९४/९५] इत्यादीनि उपदेशमालावचनानि मध्यमबुद्भिगोचराणि विज्ञेयानि । । यद्वा मूलकारिकोत्तरार्द्धव्याख्या एवं कार्या --> परमगुरुप्राप्तेः = तीर्थकरसंयोगस्य इह = प्रवचने अमुत्र बीजं = अवन्ध्यकारणं, तस्माच्च = उचिततत्सम्बन्धाच्च नियमेन मोक्ष इति । इदमेवाभिप्रेत्य पश्चसूत्रे --> अओ परमगुरुसंजोगो । तओ सिद्धी असंसयं - इत्युक्तम्, अस्य च श्रीहरिभद्रसूरिभिरेव --> अत: परमगुरुसंयोगः, अत: = गुरुबहुमानात् तीर्थकरसंयोगः । ततः = संयोगात् उचिततत्सम्बन्धत्वात् सिद्भिरसंशयं = मुक्तिरेकान्तेन ८-[४/६-पृ.१४] इति व्याख्या कृतेति ध्येयम् । इदश्च विशुद्धव्यवहारनयमतं मध्यमबुद्धरुपदेष्टव्यम् । एतावता च -> वय - समणधम्म - संजम. वेयावच्चं च बंभगुत्तीओ । 'नाणाइतियं तव२ कोहनिग्गहाई चरणमेयं ।।पिंडविसोही समिई भावण'२ पडिमा२ य इंदियनिरोहो । पडिलेहण- गुत्तीओ अभिग्गहा चेव करणं तु ||-[२/३] इति ओघनियुक्तिभाप्योक्तं चरण-करणद्वितयं यथायथं बाल-मध्यमयोरुपदेष्टव्यमिति फलितम्॥२/१०॥
निश्चयतस्तु तद्गतफले तद्गताध्यवसायस्यैव हेतुत्वम् । अत एवाऽविविक्तेन देवगुरुधर्मश्रद्धानेन नवतत्त्वश्रद्धानेन गुरुपारतन्त्र्यादिना च द्रव्यसम्यक्त्यमेव व्यपदिशन्ति श्रुतवृद्धाः । तदुक्तं मूलकारैरपि पंचवस्तुके -> जिणवयणमेव तत्तं एत्थ रुई होइ सम्मत्तं । जहभावा णाणसद्धा, परिसुद्धं तस्स सम्मत्तं ॥१०६३।। - इति । तदुक्तमन्यत्रापि --> तुह वयणतत्तरुइ, परमत्थमयाणओ वि दबगयं । इयरं पुण तह समए, परमत्थावगमओ होई ।। ४-[ 1 इति । तदक्तं टीकाकृताऽपि मार्ग-द्वात्रिंशिकावृत्ती
> मुख्यं ज्ञानं गीतार्थानामेव, तत्पारतन्त्र्यलक्षणं गौणमेव तदगीतार्थानामिति - द्वा.द्वा.३/१७७.] । तथापि मध्यमबुद्धेरिदं तत्त्वं नाख्येयं, तस्य विशिष्टतरविवेकविकलत्वेन प्रायश:तत्सम्यक्परिणामाऽसम्भवात् । न चैवं मध्यमोपदेशकस्य गुरोः मिथ्या
સંભવે છે. અને તેનાથી = સર્વજ્ઞદર્શનથી મોક્ષ થાય છે. તે કારણે સાધુએ અવશ્ય ગુરુપરતંત્ર રાખવું જોઈએ - આ પ્રમાણે तापर्ययुति याच्या १२वी. [२/१०]
વિશેષાર્થ :- માત્ર ગુરુની સાથે રહેવું કે પોતાને અનુકૂળ ગુજ્ઞા માનવી -આવો ગુરૂષારતંત્રને અર્થ નથી. ગુરુની સર્વ આજ્ઞાનો વિના વિકલ્પ પ્રસન્નતાથી સ્વીકાર કરવો અને તેને પાળવી- તે જ ગુરૂપરતંત્ર છે. નોકર શેઠની આજ્ઞાને વેઠ માનીને પાળે તે રીતે ગુરુઆજ્ઞા ન પળાય પરંતુ ગુરુ ઉપર હાર્દિક વિશિષ્ટ પ્રેમ હોવો જોઈએ. તો જ સહર્ષ ગુજ્ઞાપાલન કાયમ માટે થઈ શકે. વળી, ગુરુ ઉપર આંતરિક પ્રેમ હોવામાં પોતાનું અને ગુરુનું -જાતિ વગેરે સમાન હોવાનું જ્ઞાન પ્રયોજક ન હોવું જોઈએ. પરંતુ - ‘આ ગુરુ ન મળ્યા હોત તો સંસારના કાદવમાં હું ખેંચી ગયો હોત. ખરેખર, આ ગુરુદેવ મારા માટે સંસારસાગર તરવાનું અનન્ય સાધન છે' - આવા સુંદર તાવિક પરિણામથી ગુરુ ઉપર વિશિષ્ટ આદરભાવ થવો જોઈએ. તથા તે રીતે જ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org