________________
88 गुरुकुलवासस्य प्रकृष्टाज्ञारूपता 8 गुरुपारतन्त्र्यमेव च = गुर्वाज्ञावशवर्तित्वमेव च, तद्बहुमानात् = गुरुविषयाऽऽन्तरप्रीतिविशेषात्. ज तु| विष्टिमात्रज्ञानात् । सदाशयेन = 'भवक्षयहेतु: अयं मे गुरुः' इत्येवम्भूतशोभनपरिणामेज, न तु जात्यादिसमसम्बन्धज्ञानेन अनुगतं = सहितं. परमगुरुप्राप्तेः = सर्वज्ञदर्शनस्य इह = जगति बीजं, गुरुबहुमानात्
= कल्याणकन्दली मोक्ष इति ।।२/१०।। इयमपि कारिका धर्मरत्नप्रकरणवृत्त्यादी [गा.९६] उद्धृता वर्तते । गुर्वाज्ञावशवर्तित्वमेव = गुर्वभिप्रेतसकलाऽज्ञापालकत्वमेव, न तु द्रव्यतः केवलं गुरुसान्निध्यं न वा यत्किञ्चिदनुकूलगुर्वाज्ञासम्पादकत्वादिकम् । तदुक्तं --> जिणवयणे अणुरत्ता, गुरुवयणं जे करंति भावेणं । असबल-असंकिलिट्ठा, ते हुंति परित्तसंसारी ।। [ ] «- इति । त्रिपष्ठिशलाकापुरुपेऽपि --> सतां ह्यलट्या गुवांज्ञा - (२/३/९३) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । कालिदासेनाऽपि रघुवंशे -> आज्ञा गुरूणां ह्यविचारणीया - [१४/४६] इति प्रोक्तम् । वस्तुतो निरुक्तगुरुपारतन्त्र्यविरहे सम्यग्ज्ञानमपि न सम्भवति, तस्यैव सम्यग्ज्ञानरूपत्वात् । तदुक्तं पञ्चाशके ---> गुरुपारतंतं नाणं सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं मासतुसाइण णिद्दिष्टुं || «- [पञ्चा. ११/७] इति । अत एव -> 'ये यथोदितचरण-करणप्ररूपणाऽऽसेवनद्वारेण प्रधानात् आचार्यात् स्व-परसमयमुक्तव्यापारा न भवन्ति ते चरण-करणस्य सारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञायाः प्रवृत्तेः «- [सं.त.का.३/ का. ६७ वृ.] इति सम्मतितर्कटीकाकृतामभिमतमपि सङ्गच्छते । इत्थञ्च टीकाकृता --> अनेकान्तपरिच्छेदरूपस्य ज्ञानस्य गीतार्थे साक्षात् अगीतार्थे च स्वाश्रयपारतन्त्र्येण हेतुत्वम् - [स्या.क.ल.स्त.७/का.३०] इति स्याद्वादकल्पलतायामुक्तमपि सङ्गतिमङ्गति । तदुक्तं श्रीमेघविजयगणिना अर्हद्गीतायां -> गुरुर्ने गुरुर्दीप: सूर्याचन्द्रमसौ गुरुः । गुरुर्देवो गुरुः पन्थाः दिग्गुरु: सद्गतिर्गरुः ॥ ४-२४/१५] इति । वृद्धिसागरसूरिभिरपि आत्मदर्शनगीतायां > गर्वाज्ञापारतन्त्र्येण ब्रह्मदर्शनयोग्यता । अनेकजन्मसंस्कारात् सतां सम्यक् प्रजायते ।।४५|| - इत्युक्तम् । प्रेमगीतायामपि -> गुरुरेव प्रभुः साक्षात् ४-[४१३] इत्युक्तम् । अध्यात्मगीतायामपि -> आत्मज्ञानिगुरोः सङ्गाद् बोधादात्मा प्रकाशते । गुरुं विना न बोधोऽस्ति, गुरुः सेव्यः सुमानवैः ।।१४०।। «- इत्युक्तम् । गुरुपारतन्त्र्यमुद्दिश्यैव गुरुकुलवासस्य प्रकृष्टाज्ञारूपत्वं --> 'सुअं मे आउस्संतेणं भगवया एवमक्खायं' «- [आचा.१/१/१] इत्येवं आचारागसूत्रेण प्रतिपादितम् । तदुक्तं पञ्चाशके --> एसा य परा आणा, पयडा जं गुरुकुलं न मोत्तव्यं । आयारपढमसुत्ते, एत्तो चिय दंसिअं एयं ।। - [पंचा.११/१३] इति । तदुक्तं उपदेशरहस्येऽपि -> आज्ञारुचित्वस्य गुरुकुलवासव्याप्यत्वं प्रतीयते «- [उ.रह.गा.१३३.] इति । गुरुभक्ति-बहुमानादिविरहे किं गुरुकुलवासेन ? तदक्तं उपदेशमालायां -> जस्स गुरुम्मि न भत्ती न बहमाणो न गउरवं न भयं । न वि लज्जा न वि नेहो गुरुकुलवासेण किं तस्स ? ॥७५।। - इति । गुरुपारतन्त्र्यशून्यस्याऽगीतार्थस्य विहारोऽपि निषिद्धः । तदुक्तं ओघनियुक्ती --> गीअत्यो
अ विहारो. बीओ गीअत्यमीसओ भणिओ। एत्तो तइयविहारो नाणुनाओ जिणवरेहिं ।। ८- [ओ.नि.१२२] इति । एतेन ||-> इदानीन्तनसाधूनां जड़-बक्रत्वेन चारित्राभावः ४- इत्यपि प्रत्युक्तम्, ज्ञानावरणकर्मोदयजनितस्य जाड्यस्य संज्वलनमाया-|| लक्षणस्य वक्रत्वस्य च संयमाऽविरोधित्वात्, मिथ्यात्वोदयजनितस्य जाड्यस्याऽनन्तानुबन्धिमायालक्षणस्य वक्रत्वस्य च गीतार्थपारतन्त्र्येणैव प्रतिघातादिति व्यक्तं -> 'गीयत्थपरतंता वकजडत्ते वि दढपइन्नाए । एयस्स पत्थि हाणी' - गु.त.१/ १२५] इति गाथायां गुरुतत्त्वविनिश्चये। इदश्च गुरुपारतन्त्र्यं गुरुविपयाऽऽन्तरणीतिविशेषात् = गुरुगोचरहार्दिकप्रीतिभक्तिविशेषप्रयुक्तं, न तु राजाज्ञावत् विष्टिमात्रज्ञानात् = विष्टि-भयाधुपाधिमात्रबोधप्रयुक्तम् । गुरौ प्रीतिविशेष: मिष्टान्नपानवस्त्रपात्रप्रभृतिप्राप्त्यादितोऽपि स्यादित्यतस्तदपोहायाह - ‘सदाशयेने'ति । एतदनुरोधेन देशनाद्वात्रिंशिकायामपि -> सदाशयेनाऽनुगतं, पारतन्त्र्यं गुरोरपि -[२/२३] इत्युक्तम् । एतद्व्यवच्छेद्यान्तरमावेदयति- न तु जात्यादिसमसम्बन्धज्ञानेन = 'यादृशं मम जाति-कुल-रूप - बलादिकं तादृशमेव मदीयगुरोरपी'त्येवं जात्यादिसदृशसम्बन्धावबोधेन । मातृवंशस्य जातित्वं पितृवंशस्य च कुलत्वमित्यनयोर्विशेषः । प्रत्यन्तरे च 'ज्ञात्यादिसमसम्बन्धज्ञानेन' इति पाठः । गुरुबहुमानात् = गुरुबहुमानसामर्थ्यात् तथा
ટીડાર્ગ :- ગુરૂષારતનો અર્થ છે ગુરુની આજ્ઞાને વશ રહેવું. તે પણ ગુરૂવિષયક આંતરિક વિશિષ્ટ પ્રેમથી પ્રયુક્ત હોવું જોઈએ, નહિ કે વેઠ ઉતારવા માત્રના જ્ઞાનથી પ્રયુક્ત. તેમ જ “આ મારા ગુરુદેવ મારા સંસારનો નાશ થવામાં હેતુ છે'-આવા સુંદર પરિણામથી યુકત ગુરૂષારતંત્ર હોવું જોઈએ, નહિ કે અતિ વગેરે સમાન સંબંધના જ્ઞાનથી યુકત. [અર્થાત્ મારી જે ઊંચી જાતિ-કુલ વગેરે છે તેવી જ ઊંચી જાતિ-કુલવાળા ગુરુ હોવાથી તેનું પારિતંત્ર હું રાખું-એવા જ્ઞાનથી ગુરૂપરતંત્ર ન રાખવું.) આવું ગુરુ પાતંત્ર એ જ સર્વજ્ઞદર્શનનું આ જગતમાં બીજ બને છે. ગુરુબહુમાનથી તથાવિધ પુષ્ય ઉત્પન્ન થવાથી સર્વજ્ઞદર્શન
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org