________________
३६ द्वितीय-षोडशकम * बाल-मध्यमयोनिश्चयनयदेशनाश्रवणानधिकारित्वम् * स्वयमपि च = आत्मनापि च, तदाचारः = बाह्याचार:, तदग्रतः = बालस्याऽग्रतो नियमत: सेव्यो भवति. स्वयमुपदिश्यमानाचाराऽकरणे वितथाशङ्कया श्रोतुर्मिथ्यात्ववृद्धिप्रसङ्गात् ॥२/२||
= कल्याणकन्दली यावन्मात्रं हि बहिरङ्ग लिङ्ग-स्थूलाचारादिकं धर्मतया प्रतिपाद्यते दर्यते वा तावन्मात्रमेवाऽन्यूनाऽनतिरिक्तं तथैव बाहुल्येन
तेऽङ्गीकुरुते च यथाशक्ति; न त्वागाढापवादस्थानप्रयुक्तां विधि-यतनादिसाकल्यप्रयोज्यां वा विशोधिं बाह्याचारगतामपि सम्यक् प्रतिपत्तुं स प्रगुणः, किं पुन: बहिरिन्द्रियागोचरमन्तरङ्गमपवर्गकरतिलक्षणं धर्मम् । अत एव तस्मै मोक्षमुख्योपदेश्यकदेशनादानं मन्दाग्नये चक्रवर्तिभोज्यदानवदुन्मत्तताकार्येव स्यात् । बाह्याचार-तद्गुणप्रशंसाद्युपदेशे परिणतेऽग्रेतनभूमिकाप्राप्तावेव मोक्षमुख्योपदेश्यकदेशनावतारस्य न्याय्यत्वात् । इदमेवाभिप्रेत्य मूलकारैः धर्मबिन्दौ --> तथा परिणते गम्भीरदेशनायोग: |-- [ध.बि.२/३१] इत्युक्तं, तद्वृत्तौ च श्रीमुनिचन्द्रसूरिभिः -> पूर्वमुद्दिष्टे उपदेशजाले श्रद्धान-ज्ञानानुष्ठानवत्तया ‘परिणते' | = सात्मीभावमुपगते सति उपदेशार्हस्य जन्तोः गम्भीराया: = पूर्वदेशनापेक्षयाऽत्यन्तसूक्ष्माया आत्मास्तित्व-तबन्ध-मोक्षादिकाया देशनाया योगः = व्यापार: कार्य:-ध.बि.२/३१ वृ..४३] इति व्याख्यातम् । अनेन 'मोक्षाद्युपदेशः कदा कस्य कर्तव्यः ?' इति संशयोऽपि समाहितः । तदुक्तं पञ्चवस्तुके -> तह वक्खाणेअन्वं जहा जहा तस्स अवगमो होइ ।।९९।। - इति । अनेन व्यवहारमात्रप्राधान्ये वक्तुः मिथ्यात्वोदयापत्तिः, 'एगंते होइ मिच्छत्तं' इति वचनादिति प्रत्युक्तम्, बालबुद्धिपरिकर्मद्वारा योग्यतया अस्या अपि प्रमाणदेशनात्वात् । तदुक्तं साक्षेपपरिहारं देशनाद्वात्रिंशिकायां --> देशनैकनयाऽऽक्रान्ता कथं बालाद्यपेक्षया ? इति चेदित्थमेव स्यात् तद्भद्धिपरिकर्मणा ।। प्रमाणदेशनैवेयं ततो योग्यतया मता । द्रव्यत: साऽपि नो मानं वैपरीत्यं
चि श्राव्यं ततो वाच्यं नयान्तरम् । ज्ञाते त्वेकनयेऽन्यस्मात् परिशिष्टं प्रदर्शयेत् ।। - [२/ २६-२७-२८] इति । 'नयान्तरव्याख्यानं तु श्रोतुः स्वपरतन्त्रत्वे बुद्धिपरिकर्मितत्वे चेति तद्व्याख्यायां व्यक्तम् ।
वस्तुतो बाल-मध्यमयोः निश्चयनयदेशनाश्रवणानधिकारित्वमेव । तदुक्तं प्रतिमाशतकवृत्तौ टीकाकृतैव --> निश्चयनयानां बाल-मध्यमौ प्रत्यपरिणामकातिपरिणामकत्वेन दुष्टत्वात् «- [प्र.श.का.६५/पृ.५२८] इति । सर्वनयात्मके भगवत्प्रवचने यथोपयोगमधिकृतनयावलम्बनस्याऽदुष्टत्वादिति [४२] व्यक्तं उपदेशरहस्यवृत्तौ । अनुषङ्गतो देशनाविधिप्रतिपादिका -> यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ।। <--[यो.दृ.स.१३५] इति योगदृष्टिसमुच्चयकारिकाऽपि दृढमवधेयाऽत्र मनीषिभिः । अत एव --> पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशय || [] - इत्यादयः परदर्शनप्रलापा अपि बालजीवस्य धर्ममार्गावतारेऽप्रत्यला अवगन्तव्याः, बालदृष्ट्या धर्मस्य बाह्यलिङ्गाचारमात्रनिष्ठत्वात् । एतेन -> मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकञ्चापराह्ने । द्राक्षारखण्डं शर्करा चाऽर्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ।। - [ ] इत्युक्तेरपीह बालस्योन्मार्गनेतृत्वमा-विष्कृतम् । तदुक्तं महोपनिषदि अध्यात्मोपनिषदि च -> अज्ञस्याऽर्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनियोजितः ॥ -- [महोप. ५/१०५ अ.उप.२/५०] इति ।
इदश्चात्रावधेयम - सद्धर्मदेशकेन श्रोतयोग्यतानुसारेण देशनायाः कर्तव्यतया 'विवेकविकलो बालः स्थलधर्माचाराद्यभिमखीभूय यथाशक्ति सद्धर्माचारपालनादौ सोत्साहो भवतु' इत्येवं मनसिकृत्य बाह्याचारमुपदिश्य आत्मनाऽपि उपदिश्यमानो बाह्याचारः 'चित्ते वाचि क्रियायाञ्च साधूनामेकरूपता' इति नीतिवचनं विभाव्य बालस्याग्रतः नियमतः सेन्यः, येन बाल: चित्तस्वास्थ्यमाप्नुयात्, स्वयमुपदिश्यमानाचाराऽकरणे -> परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित् सुमहात्मनः ।। - [ ] इत्युक्तिं स्मृत्वा -> आत्मानं यो न संधत्ते सोऽन्यस्मै स्यात् कथं हितः ? [ ] - इत्युक्त्या वितथा|ऽऽशङ्कया = सद्धर्मदेशकोपदिष्टाचारतत्प्रवर्तक-तदुपदेशकादिगोचरवैतथ्यशङ्कया श्रोतुः मिथ्यात्ववृद्धिप्रसङ्गात् । अनेन बालस्य मिथ्यात्वगुणस्थानकवर्तित्वमावेदितम्, अन्यथा 'श्रोतुः मिथ्यात्वोदयप्रसङ्गादि'त्युक्तं स्यात् । तस्य धर्मार्थितया प्रकृते मिथ्यात्वं मन्दमवगन्तव्यम् । तवर्धकतया वक्तुरपि मिथ्यात्वोदयादिकमवगन्तव्यम् । तदुक्तं पिण्डनियुक्ती उपदेशमालायां च --> મુખ્ય વિષય બાહ્ય ધર્માચાર-સદાચાર હોવો જોઈએ. તેમ જ ધર્મદશકે સ્વયં પણ ઉપદિષ્ટ બાહ્ય આચાર બાલ શ્રોતાની હાજરીમાં અવશ્ય પાળવો જોઈએ. બાલ જીવને વક્તા જે આચાર પાલન કરવા યોગ્ય બતાવે તે આચારને બાલ થતાની સામે જ પ્રવચનકાર સ્વયં જ ન આચરે તેનો ભંગ કરે તો બાલ શ્રોતાને તે બાહ્ય આચારમાં કે તે વકતામાં ખોટી શંકા પેદા થવાથી બાલ શ્રોતાનું मिथ्या १५ पानी -४ थानी मापत्ति आवे. [२/२] - હિશેષાર્થ :- બાલ જીવની પાસે વિવેકદૃષ્ટિ જ નથી. તેની ભૂમિકા તદ્દન અવિકસિત છે. તેથી મુગ્ધતા વગેરેથી કે બાહ્ય સાધુવેશ
For Private & Personal use only
Jain Education Intemational
www.jainelibrary.org