SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॐ परिणामस्वरूपप्रकाशनम् ॐ आत्मा = जीव: सोऽस्ति, एतेन चार्वाकमतनिरास: । स परिणामी = परिणामसहितः, ज तु कूटस्थनित्यः, एतेन साख्यादिमतनिरास: । तथा बद्धः सता = वस्तुसता ज तु कल्पिताऽविद्यास्वभावेन कर्मणा विचित्रेण = नानारूपेण, एतेज वेदान्त्यादिमतजिरास: । मुक्तश्च तद्वियोगात् = कर्मक्षयात् । हिंसाऽहिंसादि तयोः = बन्धमोक्षयोः हेतुः - एवं रात्र प्रतिपाद्यते तत् आगमतत्त्वमिति योजना ॥१/११|| कल्याणकन्दली हिंसादि तद्धेतः ॥१/१।। इयं कारिका अष्टकप्रकरणवृत्त्यादौ [अ.प्र.१/५ ७.] समुद्भता । सः = शरीरव्यतिरिक्तो जीव: अस्ति । एतेन = शरीरातिरिक्तजीवप्रतिपादनेन चार्वाकमतनिरासः = भूतचैतन्यवादिलोकायतिकसम्प्रदायप्रत्याख्यानम्। परिणामसहित इति । 'प्रकृतेरन्यथाभावः परिणाम' इति केचित् । 'उपादानसलक्षणत्वे सत्यन्यथाभावः परिणाम इत्यपरे। 'पूर्वरूपपरित्यागे सति नानाकारप्रतिभासः परिणाम' इत्यन्ये । वेदान्तिनस्तु-उपादानसमसत्ताकत्वे सति अन्यथाभाव: परिणामः, विवर्तवारणाय सत्यन्तम्, घटस्य तन्तुपरिणामत्ववारणाय विशेष्यमित्याहुः । वयं तु ब्रूमः पूर्वावस्थापाये सत्यवस्थान्तरापत्ति: परिणामः, यथा पिण्डकपालाद्यवस्थाऽपाये सति घटावस्थाप्राप्तिः मृत्परिणाम: । तदक्तं -> परिणामो ह्यर्थान्तरगमनं, न तु सर्वधा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ।। -[ ] परिणाम-परिणामिनो: भेदाभेदस्य प्रसिद्धत्वात्, अन्यथा परिणम्य-परिणमकभावाऽयोगात् । प्रकृते देवादिपूर्विलावस्थापाये सति नराद्यवस्थाप्राप्तिरात्मनि परिणाम: । न तु आत्मपदवाच्यः कूटस्थनित्यः इति । 'कूट: लोहकाराऽऽपणास्था लौहानां कूटनार्थिका लौही च ऐरिणी, तद्वत् सर्वदा तिष्ठति कूटस्थ एकरूपतया कालव्यापी' [सां.तत्त्वकौमुदी किर. ] इति किरणावलीकारः । आत्मा न तादृशः । एतेन = आत्मनः परिणामित्वप्रतिपादनेन साङ्ख्यादिमतनिरासः = कूटस्थनित्यात्मद्रव्याभ्युपगन्तृसाङ्ख्य-योग-योग-वैशेषिकादिदर्शननिराकरणम् । कूटस्थत्वे नारकादिभावानुपपत्तिः उपलक्षणात् क्षणिकत्वे कृतनाशादिप्रसङ्गः । तदुक्तं निशीथचूर्णी अपि ---> जीवस्स णिञ्चत्तपरिग्गहे णारगादिभावो ण भवति, अणिचे वा भणिते विणासी घटवत् कृतविप्रणाशादयश्च दोषा भवंति <--- [भाग ३-1 पृ.३०] । वस्तुसता = पारमार्थिकसत्तासमाकलितेन । तदुक्तं मूलकार: धर्मबिन्दौ ---> बध्यमान आत्मा, बन्धनं वस्तुसत् । कर्म «-- [ध.बि.२/४८] इति । यथा चैतत्तत्त्वं तथा वक्ष्यते षोडशे षोडशके [षो.१६/५/११-पृ.३५९+३६९] । एतेन = आत्मनो वस्तुसन्नानाकर्मबद्धत्वप्रतिपादनेन, वेदान्त्यादिमतनिरासः = कर्मस्थानीयकल्पिताऽविद्याभ्युपगन्तवेदान्ति-सांवृतिकवासनालक्षणकर्माङ्गीकर्तृसौगत-नित्यनिर्लेपपुरुषस्वीकर्तृसाङ्ख्यप्रभृत्याम्नायाऽपनयनम् । प्रकृतलोकायतिक-साङ्ख्य-सौगतप्रभृतिमतनिरसनमस्माभिर्विस्तरतः स्याद्वादरहस्यटीकायां जयलताभिधानायां दर्शितमिति ततोऽधिकमवसेयम् । । कर्मक्षयात् = कृत्स्नस्वकर्मक्षयात्, न त्वात्मक्षयात् । तदुक्तं तत्त्वार्थसूत्रे श्रीउमास्वातिवाचकैः -> 'कृत्स्नकर्मक्षयो मोक्ष: - [त.सू.१०/३] इति । एतेन -> दीपो यथा निवृत्तिमभ्युपेतो नैवावनी गच्छति नान्तरीक्षम् । दिशं न काञ्चित् विदिशं न काश्चित् स्नेहक्षयात्केवलमेति शान्तिम् ॥ जीवस्तथा निवृत्तिमभ्युपेतो नैवावनीं गच्छति नान्तरीक्षम् । दिशं न काश्चित् विदिशं न काश्चित् क्लेशक्षयात्केवलमेति शान्तिम् ।। - सौद. १६/२८-२९] इति सौदरनन्दकाव्यकृवचनमपि प्रत्यस्तम् । यधोक्तं आचारागनिर्युक्तौ अपि -> कम्मयदव्बेहिं समं संजोगो होइ जो उ जीवरस । सो बंधो नायव्यो तस्स विओगो भवे मक्खो ।। - [२६०] इति । यथा चैतत्तत्त्वं तथा व्यत्पादितमस्भाभिः मोक्षरत्नाभिधानायां भापारहस्यविवरणटीकायामिति विस्तरतस्ततोऽवसेयम् [दिव्यदर्शनट्रस्टप्रकाशित भाषारहस्यप्रकरणे -मोक्षरत्नाटीकायां २८४ तम पृष्ठे दृश्यताम् ] | हिंसाऽहिंसादि यथाक्रमं वन्धमोक्षयोः हेतुरिति । एतेन आजीवकादिमतमपाकृतमित्यधिकं सूत्रकृताङ्गवृत्त्यादी विज्ञेयम् ॥१/११॥ ટીકા :- આત્માનો મતલબ છે [શરીરથી ભિન્ન જીવ. તે વિદ્યમાન છે. આવું પ્રતિપાદન કરવાના લીધે આગમતી નાસ્તિકમતનો નિરાસ કરે છે. આત્મા પરિણામયુક્ત છે અર્થાત જુદી જુદી અવસ્થાને પામવા સ્વરૂપ પરિણામથી યુકત છે; નહિ કે ફૂટસ્થ નિત્ય = સર્વદા એકસ્વરૂપ- આવું કહેવા દ્વારા સાંખ્ય વગેરે મતનું ખંડન થયું. તેમ જ [સંસારી] આત્મા વાસ્તવિક કર્મથી બંધાયેલ છે; નહિ કે કાલ્પનિક અવિદ્યા-માયાસ્વભાવ કર્મથી બંધાયેલ. તેમ જ કર્મ પાળ અનેક સ્વરૂપ છે. આવું કહેવા દ્વારા વેદાંતી વગેરેના મતનું ખંડન થયું. તથા કર્મક્ષયથી આત્મા મુક્ત થાય છે. ‘હિંસા વગેરે આત્માના બંધનનું કારણ છે અને અહિંસા વગેરે આત્માના મોક્ષના હેતુ છે' આવું જે શાસ્ત્રમાં બતાવવામાં આવે તેને આગમ તન્ય જાગવું. આ રીતે ગાથાર્થની | યોજના કરવી. અર્થાત્ ટીકામાં બતાવ્યા મુજબ ગાથાના પદાર્થોનો સંબંધ કરવો. [૧/૧૧]. વિશેષાર્થ :- [૧] A નારિક મતાનુસાર શરીરથી ભિન્ન આત્માનું અસ્તિત્વ નથી. શરીર એ જ આત્મા છે, જે શરીરનો A આ બધા મત-મતાંતરોનું વિસ્તારથી નિરૂપણ અને નિરાકરણ યાદ્વાદરહસ્ય (મધ્યમ)ની 'જયલતા' નામની સંસ્કૃત ટીકા અને ‘રમાણીયા નામની હિન્દી વ્યાખ્યામાં અમે વિરતારથી કરેલ છે. જુઓ દિવ્યદર્શન પ્રકાશિત સ્થાદ્વાદરહસ્ય (મધ્યમ) ભાગ ૧-૨-૩. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.004833
Book TitleShokshaka Prakarana Part 1
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy