________________
दृष्टेष्टबाधितस्य सदागमत्वाऽसम्भव: 8
आगमतत्त्वं ज्ञेयं तद्दृष्टेष्टाऽविरुद्धवाक्यतया । उत्सर्गादिसमन्वितमलमैदम्पर्यशुद्धच ॥१/१०॥
आगमतत्त्वं तत् = प्रसिद्धं ज्ञेयं भवति, दृष्टं प्रत्यक्षानुमाने, इष्टं = 'स्वाभ्युपगत आगमः ताभ्यां अविरुद्धं अबाधितार्थं वाक्यं यस्य तत्तथा (तद्भावः) तया, उत्सर्गापवादाभ्यां समन्वितं न तु तदेकान्त-वाददुष्टं अलं
=
कल्याणकन्दली
मूलग्रन्धे दण्डान्वयस्त्वेवम् -> आगमतत्त्वं तत् ज्ञेयं [ यत्] दृष्टेष्टाविरुद्धवाक्यतया उत्सर्गादिसमन्वितं अलं ऐदम्पर्यशुद्धञ्च ||१ / १० || आगमतत्त्वं = आगमतत्त्वपदप्रतिपाद्यं तत् = प्रसिद्धं, पूर्वमनिरूपितार्थत्वात्तत्पदस्याऽत्र प्रसिद्धार्थपरत्वम्, ज्ञेयं भवतीति, यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तिपरः प्रयुज्यते' इति न्यायात् ' भवति' पदलाभः । एवमन्यत्राऽप्यग्रे | स्वयमूनीयम् । तया = प्रत्यक्षानुमान - स्वेष्टागमाबाधितार्थकसकलवाक्यतया । एतावता एकान्तेनैकात्मवादप्रतिपादकागमस्य प्रत्यक्षवाधितत्वात्, कूटस्थनित्यत्वादेरात्मनि प्रदर्शकस्यागमस्याऽनुमानबाधितत्वात् ' मा हिंस्यात्' इत्युपदिश्य हिंसाप्रचुरय||ज्ञादिविधायकस्यागमस्यैष्टबाधितत्वात् सदागमबाह्यत्वं <- प्रदर्शितम् । तदुक्तं योगविन्दी - वचनादस्य संसिद्भिरेतदप्येवमेव हि । दृष्टेष्टबाधितं तस्मादेतन्मृग्यं हितैषिणा ||२३|| दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्त्तनम् । असच्छ्रद्धाभिभूतानां केवलं ध्यान्ध्यसूचकम् ||२४|| प्रत्यक्षेणाऽनुमानेन यदुक्तोऽर्थी न बाध्यते । दृष्टोऽदृष्टेऽपि युक्ता स्यात् प्रवृत्तिस्तत एव तु ||२५|| अतोऽन्यथाप्रवृत्तौ तु स्यात् साधुत्वाद्यनिश्चितम् । वस्तुतत्त्वस्य हन्तेवं सर्वमेवाऽसमञ्जसम् ||२६|| तद्दृष्टाद्यनुसारेण वस्तुतत्त्वव्यपे - क्षया । तथा तथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः ||२७|| <- इत्यादि । लोकतत्त्वनिर्णयेऽपि यचिन्त्यमानं न ददाति युक्तिं प्रत्यक्षतो नाप्यनुमानतश्च । तद् बुद्धिमान् को न भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न ||१६|| आगमेन च युक्त्या च योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राय: पक्षपाताग्रहेण किम् || १८ || <- इत्युक्तम् । योगवाशिष्टेऽपीदमेवाभिप्रेत्य --> अपि पौरुषमादेयं शास्त्रं चेदयुक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्यायैकसेविना ॥ - [ ] इत्युक्तम् । न चागमतत्त्वनिरूपणे आगमप्रवेशादात्माश्रयत्वमिति शङ्कनीयम्, प्रस्तुतायां धर्मपरीक्षायां यथा बुध आगमतत्त्वं परीक्षते तत्प्रदर्शनपरत्वादेतदागमतत्त्वनिरूपणस्याऽत्माश्रयानवकाशात् । न हि बुधः परकीयाऽऽगमतत्त्वं स्वाभिमताऽगमपराङ्मुखतया परीक्षते । युक्तञ्चतत् । इत्थमेव तत्त्वप्राप्तिसम्भवात् । तदुक्तं पतञ्जलिनाऽपि आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ॥ [] सूक्ष्मेक्षिकया धर्माऽपरीक्षणे तु धर्मबुद्धयैव धर्मविधातापातात्, यथोक्तं अष्टकप्रकरणे--> सूक्ष्मबुद्धया सदा ज्ञेयो धर्मो धर्माधिभिर्नरैः । अन्यथा धर्मबुद्धयैव तद्विघात: प्रसज्यते || [२१ / १] <- इति । उत्सर्गापवादाभ्यां = नियतविधिनिषेध-कारणिकविधिनिषेधलक्षणाभ्यां समन्वितं न तु तदेकान्तवाददुष्टं सार्वलौकिक-सार्वदिक||सार्वत्रिकानपोद्य-नियतैकस्वरूप-विधिनिषेधप्रतिपादक - वाक्यवृन्दगुम्फिततया सर्वथाऽनवस्थिताऽनियतविधिनिषेधपरकवचनविन्यासकलिततया वा मुक्त्यप्रापकत्व-भवकानननायकत्वादिदोषपङ्किलम् । अत एव महाभारतेऽपि अधर्मरूप धर्मो हि कश्चिदस्ति नराधिप ! धर्मश्वाधर्मरूपोऽपि तच्च ज्ञेयं विपश्चिता || <- [ शांतिपर्व - ३३ / ३२ ] इति वदता वेदव्यासेन धर्मस्योत्सर्गापवादाभ्यां बुधगम्यत्वमावेदितम् । आचाराङ्गवृत्ती अपि उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोः <- [७/४/२१२]
Jain Education International
-->
१९
=
મૂલકારથી જણાવે છે કે –
ગાથાર્થ ઃ- આગમતત્ત્વ તેને જાણવું કે [જે] દૃષ્ટ-ઈથી અવિરુદ્ધ વાક્યવાળું હોવા સાથે ઉત્સર્ગાદિથી યુક્ત હોય અને અત્યંત ઐદપર્યશુદ્ધ तात्पर्यपरिशुद्ध होय. [ 1 / 10]
For Private & Personal Use Only
આગમતત્ત્વને ઑળખો
टीडार्थ :- 'तत्' शब्द पूर्व प्रान्त अर्थनो पाया होय छे. ज्यां पूर्वे 'यत्' पार्थनिश्याग न आयु होय त्यारे 'तत्' पहनो અર્થ પ્રસિદ્ધ જાણવો. અર્થાત્ ગ્રંથમાં પૂર્વે જેનું નિરૂપણ કરવામાં આવેલ ન હોય તે પદાર્થ જે પ્રસિદ્ધ હોય તો તેને બતાવવા माटे 'तत्' पहनो प्रयोग वर्ध शो छे. आ व्यवस्थाने अनुसरीने टीममां न्यायविशार६श्रीओ 'तत् = प्रसिद्धं' जेवी व्याप्या रेल છે. મતલબ કે આગમ તત્ત્વ પ્રસિદ્ધ જાણવું. આગમ તત્ત્વની શુદ્ધિ કઈ રીતે જાણવી ? તે ગાથાના શેષ ત્રણ પાદ દ્વારા બતાવવામાં આવેલ છે. તે આ રીતે - જે શાસ્ત્રનું વાક્ય દૃષ્ટ અને ઈષ્ટથી બાધિત અર્થનું પ્રતિપાદક ન હોય. દૃષ્ટશબ્દનો અર્થ છે પ્રત્યક્ષ અને અનુમાન પ્રમાણ તથા ઈષ્ટપદનો અર્થ છે પોતે સ્વીકારેલ આગમ = સિદ્ધાંતશાસ્ત્ર. મતલબ કે વિવક્ષિત આગમના એક પણ વાક્યનો અર્થ પ્રત્યક્ષ, અનુમાન અને સ્વસ્વીકૃત શાસ્ત્રથી વિરુદ્ધ ન હોવો જોઈએ. [આથી ‘જગતમાં આત્મા એક જ છે' આવું પ્રતિપાદન १. ह. प्रती स्वाभ्युपगगत इति पाठ: । २, ह. प्रती 'तत्तया तथा' इति पाठः ।
www.jainelibrary.org