________________
ॐ शासनमालिन्यकारिणो मिथ्यात्ववर्धकत्वम्
तथा रातां = सत्पुरुषाणां साधुश्राद्धादीनां निन्दादेः = गर्हा-प्रद्वेषादेः च ज्ञायते (यत्) एतत् = अपरिशुद्धानुष्ठानं
कल्याणकन्दली
गोचरवीर्यान्तरायक्षयोपशमाविनाभावि तथाविधज्ञानावरणक्षयोपशमनियतसामग्रीकत्वेन तदाऽल्पतरदोषारम्भसम्भवेऽपि गुरुतरदोषात्मकप्रवचनापभ्राजनाद्यारम्भसम्भवाऽयोगात्, हेयोपादेयगोचरयथार्थप्रकाशाऽऽधायक ज्ञानावरणक्षयोपशमनियतसामग्रीकतया सति सम्यग्दर्शने ज्ञेयगोचरभ्रमसम्भवेऽपि हेयोपादेयविपर्यासबोधाऽसम्भववत् । एवञ्च पिण्डविशुद्ध्यादिकृते त्यक्तगुरुकुलवासानां मासक्षपणादिसदनुष्ठानमप्यपरिशुद्धमवसेयम् । तदुक्तं मूलकारैरेव पञ्चाशके जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणंता । सग्गाहा किरियरया, पवयणखिंसावहा खुद्दा || पायं अहिष्णगंठीतमाउ तह दुक्करंपि कुव्वंता । बज्झा व पण ते साहू धंखाहरणेण विष्णेया ॥ <[ पंचा. ११/३७-३८] इति । अत एव सच्चेष्टितापेक्षया बृहदपराधसमन्वितस्य नैव वस्तुतस्तत् सच्चेष्टितम् तदुक्तं मूलकारैः योगविन्दौ -> सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र पादस्पर्शनिषेधनम् || १४८|| तदुक्तं टीकाकृताऽपि देशनाद्वात्रिंशिकायां गुरुदोषकृतां वृत्तमपि त्याज्यं लघुत्यजाम् । जाडूयत्यागाय पतनं ज्वलति
जलने यथा - ||२ / ८||
->
अपरिशुद्धत्वप्रकारकज्ञानकृते द्वितीयलिङ्गमाह साधु - श्राद्धादीनां निन्दादेरिति । परनिन्दाया घोरकर्मार्जकत्वात् । तदुक्तं पुष्पमालायां परदोसं जंपतो न लहइ अत्थं जसं न पावइ । सुअणं पि कुणइ सत्तुं बंधइ कम्मं महाघोरं ||४६१ || - इति । न सतो न गुरून् परिवदेत् <- [८/२३] इति चरकसंहितावचनमप्यत्रानुसन्धेयम् । अन्यत्रापि -> एषां संयमिनां निन्दा मदान्धा ये वितन्वते । खनयः खलु दुःखानां ते भवन्ति भवे भवे ।। - [ ] इत्युक्तम् । कूरगडुकप्रद्वेषिमासोप| वासिक्षपकवदति स्वयमूहनीयमुदाहरणम् । स्वयं मासक्षपणादिविकृष्टतपः कारित्वेऽपि साधुप्रभृतिगर्हादिकारित्वेनाऽपरिशुद्धानुष्ठानत्वनिश्चय इत्यर्थः, यतिगुणसम्पन्नस्य नियमेन यथावस्थितगुणरुचिस्वभावतया यतिप्रभृतिनिन्दकत्वाऽयोगात् । साधुनिन्दाया मन्दधर्मिताकार्यत्वात् । तदुक्तं निशीथभाष्ये धीरपुरिसपरिहाणी नाऊणं मंदधम्मिया केई । हीलंति विहरमाणं संविग्गजणं अबुद्धीतो ॥५४२३॥ <- • इति । निन्दामूलकात् साधुद्वेषाच्च संसारवृद्धिरेव । यथोक्तं निशीथभाष्य एव संतगुणणासणा खलु परिवाओ य होति अलियं च । धम्मे य अबहुमाणो साहुपदोसे य संसारो || ५४२९ || - इति । निशीथचूर्णी अपि चरणकरणस्स संजताण वा निंदा परोवघायं करेइ स एवंवादी गुणुत्तरं वा चारित्रं मोक्षसुहं वा हणति ण लब्भइत्ति, जेण सो दीहसंसारित्तणं णिव्यत्तेति <- [ नि.मा. ५४३९ भाग. ४ पृ. ७१] इत्युक्तम् । साधुनिन्दायां गुणरागित्वलक्षणचारित्रलिङ्गभङ्गात्, तदुक्तं योगबिन्दी -> लिङ्गं मार्गानुसार्येष श्राद्ध: प्रज्ञापनाप्रियः । गुणरागी महासत्त्वः, सच्छक्त्यारम्भसङ्गतः ॥ <- [यो.बि.३५३] इति पञ्चाशकादी [२/८] साधुनिन्दादे: लोकविरुद्धत्वेनोक्तत्वाच्चारित्राधिकारित्वमपि विनश्यति । साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं आचारावृत्ती [१/१/१३-निर्यु. १०० पृष्ठ-३१] ।
वस्तुतस्तस्य सम्यग्दर्शनादेरपि भ्रष्टत्वमवसेयम्, उपबृंहण-स्थिरीकरण-वात्सल्यादिलिङ्गक सम्यक्त्वे सति साम्प्रदायिकव्यामोहादितोऽपि निःशङ्कं विशिष्टगुणसम्पन्नोद्देश्यकगद्यसम्भवात् । न हि लब्धाऽमृतास्वादस्य विषोद्गारः सम्भवति । तदुक्तं श्रीहेम | चन्द्रसूरिभिः सुविधिनाथचरित्रे -> वीतरागे श्रुते सङ्घगुणेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामता ॥ - इति । एतेन विधिविशुद्धदेशनादायकस्य प्रवचनापभ्राजना- साधुनिन्दादिपरायणत्वे संविग्नपाक्षिकत्वमपि निरस्तम्, यतनावरणकर्मोदयादिना विधिविशुद्धसंयमाचारपरिपालनेऽसमर्थत्वेऽपि संविग्नपाक्षिकस्योपेत्य प्रवचनोड्डाहसाधुनिन्दादिगुरुतरदोषाऽऽरम्भकत्वाऽयोगात्, अन्यथा
=
१७
-
તેમ જ સાધુ, શ્રાવક વગેરે સજ્જનોની નિંદા, ગહ, પ્રકૃષ્ટ દ્વેષ આદિ દ્વારા ‘આ અપરિશુદ્ધ અનુષ્ઠાન છે' એવું કુશળ બુદ્ધિવાળા [= પ્રકૃષ્ટ વિવેકબુદ્ધિવાળા] નિયમા જાણી શકે છે, કારણ કે શાસનઅપભ્રાજના વગેરે મોટા દોષમાં પ્રવૃત્તિ એ અપરિશુદ્ધિનું आंतर मलिनतानुं छे. [1/2 ]
વર્તમાન કાળના અશુદ્ધ અનુષ્ઠાનને જાણી લૉ
વિશેષાર્થ :- લાભ-નુકશાનની વિચારકતા એ આંતર વિશુદ્ધિનું - ભાવચારિત્રનું કાર્ય છે. માટે જેની પાસે ભાવસંયમની પિરાતિ હોય તે વ્યક્તિ ક્યારેય પણ ઘણા નુકશાનના ભોગે થોડો લાભ મેળવવા હરગીજ તૈયાર ન થાય. જેમ કે નિર્દોષ જમીનમાં કાપનું પાણી પરઠવવાના આચારનું = પારિકાપનિકા સમિતિનું પાલન એવી રીતે જાહેરમાં લોકોની સતત અવર-જવરવાળી જગ્યામાં કે જિનધર્મદ્વેષીના આંગણા વગેરેમાં કરે કે જેથી એ આચારને ોનારા લોકો બોધિદુર્લભ બને, જિનશાસનની-સાધુની નિંદા કરેતો તેના દ્વારા જાણી શકાય કે એ સંયમાચાર નિયમા અપરિશુદ્ધ અનુષ્ઠાનસ્વરૂપ છે. શાસનહિલના થાય તેવી પ્રવૃત્તિ કરવી તે અશુદ્ધ આત્મપરિણતિનું જ કાર્ય છે. આંતર અપરિશુદ્ધ પરિણામ દ્વારા જન્ય હોવાથી બાહ્ય રીતે શુદ્ધ સંયમાચાર તરીકે જણાવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org