SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्गेश्वरपार्श्वनाथाय नमः । याकिनीमहत्तरासूनु-सूरिपुरन्दर-श्रीहरिभद्रसूरीश्वरप्रणीतम् न्यायविशारद-ज्यायाचार्य-महोपाध्याय-श्रीयशोविजयगणिवरविरचित-योगदीपिकावृत्तिसमेतम् मुनि-यशोविजयकृत-कल्याणकन्दली-रतिदायिनीव्याख्याभ्यां विभूषितम् षोडशकप्रकरणम् ) श्रीहरिभद्रसूरिकृत: मूलगन्थ: । प्रथमं सदर्मपरीक्षाषोडशकम प्रणिपत्य जिनं वीरं, सद्धर्मपरीक्षकादिभावानाम् । लिङ्गादिभेदतः खलु, वक्ष्ये किञ्चित्समासेन ॥१/१॥ महोपाध्याय-यशोविजयरचिता योगदीपिका ऐन्द्रणिनतं वीरं नत्वाऽस्माभिर्विधीयते । व्याख्या षोडशकग्रन्थे संक्षिप्तार्थावगाहिनी ॥शा मुनियशोविजयकृता कल्याणकन्दली प्रणम्यैकादशे वर्षे श्रीसम्भवजिनं मया । कल्याणकन्दली घोडेगाँवे प्रतन्यते भृशम् ॥१॥ यस्यां षोडशको ग्रन्थः श्रीयोगदीपिका तथा । विव्रियते गुरूणां श्रीभारत्याश्च प्रसादतः ।।२।। कल्याणकन्दली प्रायो मुक्त्वा खण्डनपद्धतिम् । समन्वयात्मिका नानातन्त्राणां रच्यते मया ॥३॥ इह हि दःखपङ्कनिमग्नजन्तुजातसमद्धारकते तदात्यन्तिकैकान्तिकसदपायसमल्लासनबद्धकक्षाश्चतश्चत्वारिंशदधिकचतुर्दश शतशास्त्रप्रणेतारो याकिनीमहत्तरासूनश्रीहरिभद्रसूरिपुरन्दराः सद्धर्मपरीक्षा-देशनादिषोडशाधिकारगर्भितं पञ्चवस्तुकाष्टक-विंशिकापञ्चाशकादिसजातीयं श्रीषोडशकप्रकरणं विरचितवन्तः तदन्तर्निहिततात्पर्यार्थाविष्कारकृते च न्यायविशारद-न्यायाचार्य-श्रीहरिभद्रलघुबान्धवप्रभृतिबिरुदविभूषितैर्महोपाध्याययशोविजयगणिवरैः योगदीपिकानाम्नी व्याख्या विरचिता । तत्र मूलग्रन्थप्रारम्भस्तु प्रणिपत्येत्यादिना । मूलग्रन्थे दण्डान्वयस्त्वेवम् → वीरं जिनं प्रणिपत्य लिङ्गादिभेदतः सद्धर्मपरीक्षकादिभावानां किश्चित् खलु समासेन वक्ष्ये ॥१/२॥ कारिकाया आद्यपादेन विघ्नविनायकोपशान्तये शिष्टसमयपरिपालनाय च मङ्गलमभिहितम् । अवशिष्ट-पादैरभिधेयादिकमुपदर्शितमित्यायूहनीयमवहितमानसः ।। कामितपूरणसुरतरु-सिद्ध-स्वप्रिय-वाग्मन्त्रस्मरणादिकृते न्यायविशारदीयमङ्गलकारिका चैवम् - ऐन्द्रश्रेणिनतमित्यादि । 'षोडशकग्रन्थेऽस्माभिः संक्षिप्तार्थावगाहिनी व्याख्या विधीयत' इत्यनेन स्वप्रतिज्ञा प्रदर्शिता। सा च तदर्थनामवधानफलिका । * २तिहायिनी (गुती व्याया) * સુવિહિતશિરોમણિ સૂરિપુરંદર શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજે રચેલ પડશક ગ્રંથ અને તેના ઉપર ન્યાયવિશારદ મહોપાધ્યાય શ્રીયશોવિજયજી ગણિવરે રચેલ યોગદીપિકા વૃત્તિનો ગુર્જર અનુવાદ + ભાવાનુવાદ પ્રસ્તુત થાય છે. सरस्वती भाता पा रो, हो सशुद्धि श्रीगुराक, पोऽशनी टीडा Gधर, लावानुवाद स्थाय छे मान. ગાથાર્થ :- વીર જિનને નમસ્કાર કરીને લિંગાદિભેદથી સદ્ધર્મપરીક્ષક આદિ ભાવોના અભ્યસ્વરૂપ)ને સંક્ષેપથી હું =શ્રી मिसू२] sile. [५/१] મૂલ ગ્રંથની યોગદીપિકા ટીકા રચતાં મહોપાધ્યાય શ્રીયશોવિજ જી ગણિવર મંગલાચરણ કરે છે. તે આ મુજબ છે. ઈંદ્રસંબંધી |ગિથી નમસ્કૃત થયેલ શ્રીવીર ભગવંતને વંદન કરીને અમારા દ્વારા [શ્રીન્યાયવિશારદ દ્વારા થોડશક ગ્રંથ ઉપર સંક્ષિપ્ત અર્થનું Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.004833
Book TitleShokshaka Prakarana Part 1
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy