________________
* वास्तुसाराद्यनुसारेण शुद्धभूमिस्वरूपप्रकाशनम्
"सन्न्यायतश्च = शोभनन्यायेन या उपात्ता = गृहीता, न तु धनिकपराभवेज । न = जैव परस्य = प्रातिवेश्मिकाटे: उपतापहेतुश्च सा मुनीन्द्रैः = परमज्ञानिभिः समाख्याता ॥६/४॥
कल्याणकन्दली
->
->
->
लिना ।। [स्तं. १३/ व्या. १८६] - इत्युक्तम् । आचारोपदेशे चारित्रसुन्दरगणिना • शुचिप्रदेशे निःशल्ये कुर्याद्देवालयं सुधीः । | सौधेयातां वामभागे सार्धहस्तोच्च भूमिके || [२/२४] - इत्येवमुक्तम् । भूमिशुद्धिनिरूपणं श्रीरत्नशेखरसूरिभिः श्राद्धविधिवृत्ती | -> सुस्थानं पुनः शल्य- भस्म - क्षात्रादिदोषैर्निषिद्धाऽऽयादिना च रहितं बहलदुर्वा - प्रवाल- कुश-स्तम्ब प्रशस्तवर्णगन्धमृत्तिका|सुस्वादुजलोद्गमनिधानादिमच्च - <-[६/१२/पृ.३१] इत्येवमकारि । धर्मसङ्गहवृत्तौ शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठा| दिदलस्य ग्रहेणन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवकायरक्षायतनापूर्वं जिनभवनस्य विधापनम् - [ध.सं.गा. ५९ पृ.३५४] इत्युक्तम् । वास्तुसारप्रकरणे -> चउवीसंगुलभूमी खगेवि पुणवि सा गत्ता । तेणेव मट्टियाए हीणाहियसमफला नेया । अह सा भरिय जलेण य चरणसयं गच्छमाण जा सुसइ । ति दु-इग अंगुलभूमी अहम - मज्झमउत्तमा जाण । सियविप्पि अरुणखत्तिणि पीयवइसी अ कसिणसुद्दी अ । मट्टियवण्णपमाणा भूमी नियनियवण्णसुक्खयरी || <- [१/३-४-५] इति ठक्करफेरुप्रोक्तमन्त्रानुसन्धेयम् । यथोक्तमन्यत्रापि शीत- स्पर्शोष्णकाले यात्युष्णस्पर्शा हिमागमे । वर्षासु चोभयस्पर्शा सा शुभा सर्वदेहिनाम् ।। हस्तमात्रं खनित्वाऽदौ पूरिता तेन पांसुना । श्रेष्ठा समधिके पांसौ हीने हीना समे समा ।। पदगतिशतं यावच्चाम्भः पूर्णा न शुष्यति । सोत्तमैकाङ्गुलहीना मध्यमा तत्पराऽधमा | अथवा तत्र पुष्पेषु खाते सत्युषितेषु तु । समार्द्धसमशुष्केषु भुवस्त्रैविध्यमादिशेत् ।। त्रि- पञ्च सप्तदिवसैरुप्तव्रीह्यादिरोहणात् । उत्तमा मध्यमा हीना विज्ञेया त्रिविधा मही । व्याधिं वल्मीकिनी नै:स्व्यं शुषिरा स्फुटिता मृतिम् । दत्ते भूः शल्ययुग् दुःखं ज्ञेयं तु यत्नतः ॥ - |[श्राद्धविधिप्रकाश-६ - गाथा - १२ वृत्ति - पृ. ३१] । तदुक्तं कल्याणकलिकायां भूमिं सुलक्षणां ज्ञात्वा तत्र वास्तुं निवेशयेत् । तेन कारक - कर्तॄणां भवेदुदयसिद्धये ॥१८॥ - इति । बीजवपनतः भूमिपरीक्षा चैवं ज्ञेया • 'फालकृष्टेऽथवा देशे, सर्वबीजानि वापयेत् । त्रि-पञ्च सप्तरात्रेण यत्र रोहन्ति तान्यपि ||१|| ज्येष्ठोत्तम - कनिष्ठा भूः वर्जयेदितरां सदा । पञ्चगव्यौषधीजलैः | परीक्षित्वाऽथ सेचयेत् ॥२॥ [] जलप्लवेन भूमिपरीक्षा त्वेवं विज्ञेया उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । विप्रः सर्वत्र वसेद्नुवर्णमधेष्टमन्येषाम् ॥ <- [५३ / ९१] - भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि । ता एव तेषां | शस्यन्ते, देवायतनेष्वपि । [५६ / ९] <- इति बृहत्संहितायां वराहमिहिरः । शल्यादिदूषिता भूमिस्तु निषिद्धा । तदुक्तं कल्याणकलिकायां . .-> सुलक्षणेऽपि भूभागे, शल्यादिदोषदूषिते । नोदयस्तत्र तेनादी, शल्यमुद्भियते बुधैः <- ॥ १९॥ इति । शल्यस्य दोषावहत्वं तु बृहत्संहितायां वराहमिहिरेण -> धनहानिर्दारुमये, पशुपीडारुग्भयानि चास्थिकृते । लोहमये शस्त्रभयं, कपालकेशेषु मृत्युः स्यात् ।। अङ्गारे स्तेनभयं भस्मनि च विनिर्दिशेत् सदाऽग्निभयम् । शल्यं हि मर्मसंस्थं सुवर्ण - रजतादृतेऽत्यशुभम् । मर्मण्यमर्मगो वा रुणद्भूयर्थागमं तुषसमूहः । अपि नागदन्तको मर्मसंस्थितो दोषकृद् भवति ।। ←[[बृ.सं.] इत्येवमुक्तम् । तत्र यजमानाङ्गकण्डूयनादिना क्षेत्रे शृगालादिप्रवेशेन वा लग्नेन वा ध्वजाद्यायैर्वा कचटतपसहयजैर्नवभिर्वणै: प्रश्नैर्वा शल्यं जानीयात् ←- [भूपरीक्षा - पृ. १०] इति निर्वाणकलिकायां पादलिप्तसूरयः । भूमिशल्यदोषपरिहारः -> जानुमात्रं खनेद् भूमिमथवा पुरुषोन्मिताम् । अधः पुरुषमात्रा तु न शल्यं दोषदं गृहे ॥ जलान्तकस्थितं शल्यं, प्रासादे दोषदं नृणाम् । तस्मात् प्रासादिकीं भूमिं खनेद्यावज्जलान्तिकम् ।। ←- [ ] इत्येवं ज्ञेयः । आचारदिनकरे च • क्षेत्रशुद्धियुक्तिर्यथाशुद्धमृत्तिकापर्यन्तं भूमिखननं, ततः काष्ठास्थि-चर्म-केश-नख-दन्त-तृणामेध्यावकराणां दूरतोऽपसारणं तत्र च | गौरसुरभि - मृत्स्नानपरिक्षेपः तत उपरि गोमूत्र - गोमयस्थापनं... - [ १४८] इत्याद्युक्तम् । विस्तरतस्तु भूमिशल्य-तदुद्धारादिकञ्च | | विषय - विलास-प्रश्नविद्या राजवल्लभ- विश्वकर्मप्रकाश ज्योतिर्निबन्धप्रभृतिग्रन्थेभ्योऽवसेयम् । तपस्विजनोचितप्रदेशे जिनालयकारणे तत्स्फातिमद् भवति; अनुचितप्रदेशे जिनभवनविधाने तु न तद्वृद्धिः प्रत्युत शासनमालिन्यादिदोषवृन्दोपनिपातः, तदुक्तं पञ्चाशके -> अपदेसंमि ण बुड्ढी कारवणे जिनघरस्स ण य पूया । साहूणमणणुवाओ, किरियाणासो उ अववाए || सासणगरिहा लोण, अहिगरणं कुत्थियाण संपाए । आणादीया दोसा, संसारणिबंधणा घोरा ।। कीलादिसल्लजोगा, होंति अणिव्वाणमादिया दोसा । एएसि वज्जणट्ठा, जइज्ज इह सुत्तविहिणा उ ॥ - . [७/११-१२-१३] इति । इयञ्च द्रव्यतो भूमिशुद्धिरवसेया ।
भावतो भूमिशुद्धिमाह - न तु धनिकपराभवेन गृहीता, नैव प्रातिवेश्मिकादेः उपतापहेतुश्चेति । द्विविधाऽपि भूमिशुद्धि: નિષિદ્ધ કરેલ ન હોય તે શુદ્ધ જાણવી. વળી, ઉચિત ન્યાયની પદ્ધતિથી જે જમીન ખરીદાયેલ હોય, નહિ કે ધનિકોના પરાભવથી. તેમ જ પાડોશી વગેરેને પીડાનો હેતુ ન બને. તે જમીન શુદ્ધ જાણવી. [૬/૪]
१. 'सन्न्यायत:
सुशोभनन्यायेन' इति मुद्रितप्रती पाठ: । मूलानुसारेण स चाशुद्धः प्रतिभाति ।
For Private & Personal Use Only
<
=
१३९
Jain Education International
www.jainelibrary.org