________________
१३६ षष्ठं षोडशकम्
जिनभवनसूत्रधारलक्षणम्
षष्ठं जिनभवनषोडशकम्
लोकोत्तरतत्त्वसम्प्राप्तिरुक्ता । तदुत्तरं यल्लभ्यते तदाह - अस्यामित्यादि ।
=
अस्यां सत्यां नियमाद्विधिवज्जिनभवनकारणविधानम् । सिध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन ||६/१॥ अस्यां : लोकोत्तरतत्त्वसम्प्राप्तौ सत्यां नियमात् = योग्यतानियमात् विधिवत् = विधिना जिनभवनस्य कारणैः प्रयोज्यकर्तृभिः कृत्वा विधानं सम्पादनं सिध्यति, परमफलं = प्रकृष्टफलं हि अलं अत्यर्थ अधिकारी आरम्भको यत्र तत्त्वेन तद्भावेन ||६ / १२|| कीहम्गुणः पुनरयमधिकारीत्याह
न्यायेत्यादि ।
कल्याणकन्दली
मूलग्रन्थे दण्डान्वयस्त्वेवम् → अस्यां सत्यां नियमात् विधिवत् जिनभवनकारणविधानं हि अधिकार्यारम्भकत्वेन अलं परमफलं सिध्यति ॥६/१॥
नियमात् = योग्यतानियमात् = जिनभवनकारणविधानस्वरूपयोग्यतासद्भावावश्यम्भावात् । तेन जिनभवनकारणविधान| मन्तरेण दीक्षाऽऽदानेऽपि न क्षतिः । न हि घटस्वरूपयोग्यतालिङ्गिते सकलेऽपि मृद्रव्ये घटो नियमेन जायते । न चैतावतैव तत्र घटस्वरूपयोग्यता निहोतुमुचितेति भावनीयम् । विधिना = पूजाबलिविधानेन, तदुक्तं शिल्पस्मृतिवास्तुविद्यायां > पूजाबलिविधानञ्च कृत्वा कर्म समारभेत् । सर्वं सिध्यति तत्कर्म सर्वकामफलप्रदम् ||३९|| <- • इति । शास्त्रोक्तविध्यननुसरणे तु नेष्टफलसिद्धिः । तदुक्तं भगवद्गीतायामपि -> यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ < [१६/२३]
->
प्रयोज्यकर्तृभिः शील्पशास्त्र - कलाशास्त्रप्रभृतिनिपुणैः सूत्रधारादिभिः, न तु स्वयमेव जिनालयविधाने उद्यम्यते, न वा | शील्पशास्त्राद्यनभिज्ञैः सूत्रधारादिभिः । तदुक्तं शिल्पस्मृतिवास्तुविद्यायां → सूत्रधारः शास्त्रयुक्तो वास्तुवेदोपलक्षकः । सूत्रकम्बीसमायुक्तः सर्वशास्त्रसुकोशलः ||२९||
->
->
प्रकृष्टफलं इहाऽमुत्र सर्वविरति-वैमानिकद्युलोक-सुलभबोधित्वाऽपवर्गप्राप्तिलक्षणफलं सिध्यति । तदुक्तं शत्रुञ्जयमाहात्म्ये धनेश्वरसूरिभिः -> कारयन्ति जिनानां ये तृणाssवासानपि स्फुटम् । अखण्डितविमानानि ते लभन्ते त्रिविष्टपे । - [५/ ४८९ ] इति । उपदेशतरङ्गिण्यामपि -> कारयन्ति जिनेन्द्राणां तृणावासानपीह ये । मणि रत्न विमानानि ते लभन्ते भवे |भवे ।। [२ / पृ.११०] - इत्युक्तम् । यद्यपि महानिशीथे काउंपि जिणायणेहिं मंडियं सव्वमेइणीवट्टं । दाणाइचउक्केण सड्ढो गच्छेज्ज अच्चुयं जाव न परं । - इत्युक्तं सम्बोधसप्ततौ श्रीरत्नशेखरसूरिभिरपि उक्कोसं दव्वत्थयआराहगो | जाव अच्चुअं जाई - [ ४५ ] इत्युक्तं तथापि जिणभवण बिंबठावण जत्तापूआ य सुत्तओ विहिणा । दव्वत्थउ ति नेयं भावत्थयकारणत्त गेण ॥ [ सं . प्र. १ / १९५ द.शु. ७८ ] इति सम्बोधप्रकरण- दर्शनशुद्धिप्रकरणादिवचनात् द्रव्यस्तवस्य भावस्तवहेतुतया परम्परयाऽपवर्गहेतुत्वमनिषिद्धमेव, अन्यथासिद्धवेयावच्चेणं महानिज्जरा महापज्जवसाणं चेवत्ति' - [ ] इति व्यवहार-सूत्रवचनं विरुध्येत । न हि सिद्धवैयावृत्त्यं तद्विम्ब तदायतनादिकमृते सम्भवति । अग्रे 'नियमादपवर्गबीजं' [६ / १४] इति वक्ष्यति ग्रन्थदेव । जिनभवनविधानमाहात्म्यश्च -> यस्तृणमयीमपि कुटीं कुर्य्याद् दद्यात्तथैकपुष्पमपि भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? । किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनं ये कारयन्ति शुभमतिविधायिनः ते महाधन्याः ।। [ २/पृ. १२५] इत्यादिना उपदेशतरङ्गिण्यादितो बोध्यम् ||६ / १ ||
<
* रतिहायिनी (गुभराती व्याख्या)
પાંચમા ષોડશકમાં લોકોત્તરતત્ત્વસંપ્રાપ્તિ કહી ગયા. તેના પછી જે પ્રાપ્ત થાય તેને મૂલકારથી ૬ઠ્ઠા પોડશકમાં જણાવે છે. ગાથાર્થ :- લોકોત્તરતત્ત્વસંપ્રાપ્તિ થઈ હોય ત્યારે નિયમા વિધિયુક્ત જિનાલયનું કારણો દ્વારા નિર્માણ, ખરેખર અધિકારીકર્તૃક હોવાથી અત્યંત પરમકલવાળું સિદ્ધ થાય છે. [૬/૧]
ॐ निलवन संपाहन E
ટીડાર્થ :- લોકોત્તર તત્ત્વની સંપ્રાપ્તિ થાય ત્યારે નિયમા એવી યોગ્યતા પ્રગટે છે, જેના લીધે તે ( શ્રાવક) વિધિપૂર્વક જિનાલયના प्रयोगकर्ताओ [अरीगर, उडिया, शिल्पी, सुधार वगेरे] वडे हेरासर निर्माण करावे छे. बोडोत्तरतत्त्वसंप्रामिषाणो प्रयोग कर्ता [ श्रार्ड ] | ખરેખર દેરાસર બંધાવવાનો અધિકારી છે. તેથી તે ચૈત્યનિર્માણ તેને અત્યંત પ્રકૃષ્ટફલદાયી સિદ્ધ થાય છે. [૬/૧]
કેવા ગુણવાળો પ્રયોજક કર્તા દેરાસર બંધાવવાનો અધિકારી થાય ? તેવી જિજ્ઞાસાનું શમન કરવા મૂલકારથી કહે છે કે — १. 'कीदृशः गुणः' इति ह. प्रती अशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org