________________
8 विधेरावश्यकताविमर्शः
१२१
भक्षणप्रवृत्तिं विदध्यात् ? 'विषप्रवृत्तिकल्पाऽविधिसेवा । तत्त्वतो जागमविधिमुखेनोक्तम् । निषेधमुखेजाह -> तस्मादित्यादि । तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः ||५/८ ||
कल्याणकन्दली
अमृतरसास्वादज्ञः पुमान् विषे प्रवर्तेत वचनं फलतः परिणतमिति भावः ॥ ५ / ७॥
सुगमार्थकल्पनाकारस्तु नातिप्रसङ्ग इति विभावनीयम् ।
->
दृष्टान्तो नाम यत्र मूर्ख विदुषां बुद्धि-साम्यम् <- [ ३ / ८ / ३४] इति चरकसंहितावचनादुदाहरति को नाम अमृतरसास्वादज्ञ इति । क्वचित् कदाचित् प्रयोजनविशेषेण अमृतरसास्वादज्ञोऽपि विषानयन-नयन क्रयण-विक्रयणादिकं विदध्यादिति चेतसिकृत्याह - विपे प्रवर्त्तेत भक्षणप्रवृत्तिं विदध्यादिति । ततश्च दाष्टन्तिकेऽप्यविधेर्निषेध्यतया उपदेशे प्रदर्शनेऽपि न दोषः । न हि परिहारार्थितयाऽनन्यगत्या तत्र प्रवृत्तः प्रवृत्तो नाम । उपलक्षणादविधिप्रशंसानिषेधः सूचितः । तदुक्तं षष्ठिशतकप्रकरणे नेमिचन्द्रेण -> मुद्वाण रंजणत्थं अविहिपसंसं कयाइ न करिज़्ज़ा । किं कुलवहुणो कत्थइ थुणंति वेसाण चरियाई || ५८ || ननु शुद्धक्रियाया एवं पक्षपाते तदलाभेऽशुद्धायाश्चानङ्गीकारेऽक्रियापरिणामस्य स्वत एवोपनिपातात्तीर्थोच्छेद एव स्यात् । ततश्च 'सर्वनाशे समुत्पन्नेऽर्धं त्यज्यति पण्डित' इति न्यायादविधिसेवाऽप्याश्रयणीयैवेति चेत् ? मैवम्, अविधिकरणे सूत्रोक्तक्रियाविनाशात् परमार्थतः तीर्थविच्छेद एव सूत्रविहितयथोचितक्रियाविशिष्टसाधु-साध्वी श्रावक-श्राविकासमुदायो हि तीर्थनाम्ना प्रोच्यते । तदुक्तं सम्बोधसप्ततिकाप्रकरणे -> एगो साहू एगा य साहूणी सावओ वि सड्ढी वा । आणाजुत्तो संघो सेसो पुण अट्ठिसंघाओ || - [ ३९ ] इति । ततश्वाविधिसेवाया विषकल्पत्वमेव । विषं हि भक्षकस्यैव विनाशकम्, अविधिसेवा त्वसदालम्बनतया परेषामपि तत्र पक्षपातजननादिद्वारा । विधिकरणे दोषप्राप्तावप्यदोष एव । तदुक्तं निशीथचूर्णौ अपि -> सव्वत्थ एवं विधिं करेंतो जदि वि दोसेहिं पुट्टो तहा वि सुद्धो [नि.चू. ४१९२ ] ।
चाधेयम् विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवेदिति विमृश्य तद्भिया न क्रियात्यागो विधेयः | किन्तु विधिसम्पादनायैव प्रयतितव्यम् । अशठभावेन विधिसम्पादनप्रवृत्तौ जायमानस्याशुद्धानुष्ठानस्यापि शुद्धानुष्ठानकारणत्वात्, तदुक्तं चैत्यवन्दनमहाभाष्ये -> असढस्स अपरिसुद्धा किरिया सुद्धाए कारणं होइ । जत्तो विमलं रयणं सुहेण बज्झं मलं चयइ ॥ [ चै. वं. महा.भा.गा. ८९७] इति । द्रव्यतो विधिभङ्गे तत्पक्षपातत: श्रद्धालुत्वमप्यनाविलमुपतिष्ठते । यथोक्तं धर्मरत्नप्रकरणे -> विहिसारं चिय सेवइ, सद्भालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ वि पक्खवायं वहइ तम्मि ॥ ९१ ॥ - इति । उपदेशपदे सम्बोधप्रकरणे दर्शनशुद्धिप्रकरणे [गा. २८ ] च धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना || [सं. २/ ३३८] - इत्युक्तम् । अकरणापेक्षयाऽविधिकरणमपि प्राथमिकदशायां वरिष्ठमेव, निर्जरालाभात् । तदुक्तं जीवानुशासने अकुताउ कुणंतो अविहीइवि होइ निज्जराभागी । कित्तिमेत्ता सत्ता जं विहिविनायगा लोए ||६२|| तम्हा विहिसदहणं सया कुणंतो करेसु करणिज्जं । अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज || ६४ || <इति । ततश्च न सातिचारव्रतपालनापेक्षया तदप्रतिपत्तिर्गरीयसी, विधि-पक्षपातेन सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारानुष्ठानसम्भवात्, वक्ष्यंति चाग्रे अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः <- [ १३ / १३ ] इति । अयमाशय: प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदाऽपि वा प्रज्ञापनीयस्याविधिदोषो निरनुबन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय विधिबहुमानात् गुर्वाज्ञायोगाच्च तस्य फलतो विधिरूपत्वात् । इदमेवाभिप्रेत्य -> 'अविहिकया वरमकयं असूयवयणं भांति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुयं ॥ - [ ] इत्यादिवचनानीति व्यक्तं योगविंशिकावृत्तौ ॥५ / ७||
->
योगदीपिकायां अष्टमकारिकावतरणिकायां -> विधिमुखेनोक्तम् । निषेधमुखेनाह < इति पाठः । स च प्रामादिकः । . इत्येवं पाठः समीचीनः प्रतिभाति, तथैव पूर्वोत्तरग्रन्थसङ्गतेः, सुगर्माथ
<
->
=
=
Jain Education International
-> 'सम्यग् = ज्ञेयविषयविभागेन' <- इत्याचष्टे । तत्र ज्ञेयपदस्योपलक्षणात् हेयोपादेयग्रहणमिति
तत्स्थाने -> निषेधमुखेनोक्तम् । विधिमुखेनाह कल्पनावृत्तिकारस्याप्यत्रैव स्वरसाच्च ।
રીતે આગમવચન ફલની અપેક્ષાએ પરિણત થયેલ નથી. એવો મૂલકારશ્રીનો આશય છે. [૫/૭] ‘અચરમાવર્તમાં આગમવચન ન પરિણમે' એમ નિષેધ મુખે જણાવ્યું. હવે તે વાતને વિધિમુખે રીતે સુરિપુરંદર જણાવે છે કે –
४. मुद्रितप्रती --> विपप्रवृत्तिकल्पामविधिसेवां <- इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
વિધાનરૂપે = विधेयात्मा
www.jainelibrary.org