________________
१२० पञ्चमं षोडशकम्
88 स्तोकस्यापि विध्यादियुक्तानुष्ठास्योपादेयता
| एव = आगमाभ्युपगतफल एव भवति । अन्यथा आगमार्थाऽध्यारोपाभावे तत्तत्त्वदृशां आगमप्रामाण्याभ्युपगतृणां एषा = दाजाद्यविधिसेवा पापा पापहेतुः कथं स्यात् ? फलार्थिनः फलानुपाये प्रवृत्तेः अर्थभ्रमं विनाऽसम्भवादिति भावः ॥५ / ६ ॥
ज्ञानफलाभावलक्षणाऽपरिणामस्याप्यविधिसेवा लिङ्गमित्याह -> 'येषामित्यादि ।
येषामेषा तेपामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ? ॥ ५/७॥ येषां जीवानां एषा = अविधिसेवा तेषां आगमवचनं न सम्यक् = फलोपधानेन परिणतम् । को नाम
कल्याणकन्दली
<
दानाद्यविधिसेवेति । आदिपदेन शीलादिग्रहणं, तत्क्रमेणैवाऽऽराधनायोग्यताविर्भावात् । यथोक्तं स्तवपरिज्ञायां -> एतो च्चिय णिदिट्ठो धम्मम्मि चउव्विहम्मि वि क्रमो य । इह दाण- सील-तव-भावणामए अण्णहाजोगा || १९८ || संतंपि बज्झमणिचं | ठाणे दाणं पि जो न वियरेइ । इह खुदओ कहं सो सीलं अइदुद्धरं धरइ || १९९ || अस्सीलो ण य जायइ सुद्धस्स तवस्स हंदि विसओ वि । जहसत्तीऽतवस्सी भावइ कहं भावणाजालं ॥ २००॥ <- इति । दानाद्यविधिसेवा पापहेतुरिति । यथोक्तं श्रीरत्नशेखरसूरिभिः सम्बोधसप्ततिप्रकरणे जह भोयणमविहिकयं विणासए विहिकयं जियावेई । तह अविहिकओ धम्मो देइ भवं विहिकओ मुक्खं ॥ ४३ ॥ <- इति । तदुक्तं अष्टकप्रकरणे यथैवाऽविधिना लोके न विद्याग्रहणादि यत् । विपर्ययफलत्वेन तथेदमपि भाव्यताम् ॥ [ ८/४] - इति । तदुक्तं योगशतकवृत्तौ अपि -> अविधेः प्रत्यवायहेतुत्वात्, अकृतोऽविधिकृतयोगाद् वरं, असच्चिकित्सोदाहरणादिति [लो. ४ वृ.] । दानादौ विधिसेवनेनैव जिनाज्ञा आराधिता स्यात् । तदुक्तं पञ्चवस्तुके विहिदाणम्मि जिणाणं, आणा आराहिया धुवं होइ । अण्णेसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं |||७९६ ।। -- इति । अथाऽविधी सत्यपि क्रियमाणात् दानादिसदनुष्ठानात् कालेनाऽपवर्गप्राप्तिस्स्यादेवेति चेत् ? न, स्तोकस्यापि विध्यादिपरिकलितस्यैव सदनुष्ठानस्याऽपवर्गबीजत्वेनाऽर्हतामभिमतत्वात् । तदुक्तं मूलकारैरेव धर्मविन्दौ -> विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम्' [ ध. बिं. ४ / श्लो. २१] इति । विधिपालनपरत्वमासन्नसिद्धिलक्षणमविधिसेवनःञ्चाभव्यदूरभव्यादिलक्षणमिति | भावः । तदुक्तं उपदेशपदे सम्बोधप्रकरणे दर्शनशुद्धिप्रकरणे [२७] च आसन्न सिद्धिआणं विहिपरिणामो उ होइ सया कालं । विहिचाउ अविहिभत्ती, अभव्वजिअदूरभव्वाणं ॥ [ सं . देवाधि.१९३] इति । फलानुपाये इति उपलक्षणात् फलबाधके इत्यपि बोध्यम् । यद्वा फलानुपाये = फलोपायविपर्यये इत्येवं व्याख्येयम्, फलानुपायेन साध्यसिद्धेरनभिमतत्वात् । तदुक्तं धर्मविन्दौ -> अनुपायान्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः - [ध. बिं. ४ / २३] इति । 'अनुपायात्तु = उपायविपर्ययात् पुनः' इति तद्वृत्तिकारः । प्रक्रमे फलानुपायोऽविधिसेवात्मको बोध्यः । अर्थभ्रमं = फलानुपायादिलक्षणेऽर्थे फलोपायत्वादिप्रकारकं विपर्यासं विनाऽसम्भवादिति । शिष्टं स्पष्टम् ॥५/६ ॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> येषां एषा तेषां आगमवचनं सम्यक् न परिणतम् । को नाम अमृतरसास्वादज्ञो विषे प्रवर्तेत ? ॥५ / ७॥
=
=
"
-->
सम्यक् = फलोपधानेन = स्वोत्तरत्वविशिष्टसामानाधिकरण्यसम्बन्धेन फलजननतया परिणतम् । ततश्च न तदीयाऽविधिसेवामवलम्ब्य अज्ञातदशायां प्रवृत्तस्य विधिरसिकस्य प्रज्ञापनीयस्य तदुत्तरं फलोत्पादेऽपि व्यभिचारः ।
Jain Education International
=
વિશે વિધિથી વિપરીત આચરણ થાય છે. બાકી આગમિક અર્થને વિશે અપ્રામાણ્યનું ઉદ્ભાવન કરવામાં આવેલ ન હોય તો આગમપ્રામાણ્ય માનનારા જીવોને દાનાદિને વિશે પાપજનક અવિધિસેવન કેવી રીતે થાય ? ફલના અર્થી પુરુષની ફલના અનુપાયમાં પ્રવૃત્તિ અર્થભ્રમ વિના સંભવી ન શકે. - એવો મૂલકારશ્રીનો આશય છે. [પ્રસ્તુતમાં ફલ = અભ્યુદય, પુણ્ય વગેરે, ફલનો અનુપાય अविधिसेवन, अर्थक्रम = इननब्रांति ओम समj.] [4 / ६ ]
અવિધિસેવન એ જ્ઞાનના ફળના અભાવાત્મક અપરિણામનું પણ લિંગ छेडे -
=
લક્ષણ છે. આ વાતને બતાવતાં શ્રીહરિભદ્રસૂરીશ્વરજી
ગાથાર્થ :- જેઓ અવિધિસેવન કરે છે તેઓને આગમવચન સારી રીતે પરિણત થયું નથી. અમૃત રસના આસ્વાદને જાણનારો गरम प्रवृत्ति टीडार्थ :જે જીવો દાનાદિને વિશે અવિધિને સેવે છે તેઓને ફલોત્પન્ન કરવારૂપે આગમવચન પરિણત થયું નથી. અમૃતના રસાસ્વાદને જાણનાર કોણ ઝેરને વિશે ખાવાની પ્રવૃત્તિ આચરે ? વિષપ્રવૃત્તિતુલ્ય અવિધિસેવન છે. તેથી જણાય છે કે તાત્ત્વિક
? [4/७]
For Private & Personal Use Only
www.jainelibrary.org