________________
९० चतुर्थं षोडशकम्
* धर्मेच्छुलिङ्गोपदर्शनम् %
चतुर्थ धर्मलिगषोडशकम् धर्मस्य स्वलक्षणमुक्तम् । अथास्य विस्तरेण लिङ्गान्याह -> 'सिद्धस्य चेत्यादि । सिद्धस्य चास्य सम्यग्लिङ्गान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् ॥४/१॥
सिद्धस्य : निष्पन्नस्य चास्य धर्मतत्त्वस्य = धर्मस्वरूपस्य सम्यग् = अवैपरीत्येज लिङ्गानि = लक्षणानि तत्त्वविद्धिः = परमार्थः विहितानि = शास्त्रेऽभिहितानि भव्यानां = योग्यानां सुखावबोधाय = सुखप्रतिपत्तये 1॥४/१|| तान्येव लिङ्गानि सङ्ख्याविशिष्टान्याह -> 'औदार्यमित्यादि ।
औदार्य दाक्षिण्यं पापजुगुप्साऽध निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वञ्च ॥४/२॥ स्पष्टम् ॥४/२|| औदार्य लक्षयति -> 'औदार्यमित्यादि ।
औदार्यं कार्पण्यत्यागात् विज्ञेयमाशयमहत्त्वम् । गुरु-दीनादिष्वौचित्यवृत्ति कार्ये तदत्यन्तम् ॥४/३॥ औदार्य कार्पण्यस्य दानादिपरिणामसङ्कोचलक्षणस्य त्यागात् आशयस्य = चित्तस्य महत्त्वं = असङ्कचितदानादिपरिणामशालित्वं विज्ञेयम् । तत् = औदार्य अत्यन्तं = अतिशयेन गुर्वादयः = मातृपितृ-कलाचार्य-तज्ज्ञाति
= कल्याणकन्दली । मूलग्रन्थे दण्डान्वयस्त्वेवम् → सिद्धस्य चास्य धर्मतत्त्वस्य सम्यग् लिङ्गानि तत्त्वविद्भिः भव्यानां सुखावबोधाय विहितानि ॥४/१॥ भव्यानां = योग्यानां = सहजमलहासवताम् । अनेनाञ्चरमावर्तिभव्यादीनां व्यवच्छेदः कृतः । अवशिष्टं स्पष्टम् ॥४/१॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अथ धर्मसिद्धेः लिङ्गानि 'औदार्य, दाक्षिण्यं, पापजगप्सा, 'निर्मलो बोधः, प्रायेण|| जनप्रियत्वञ्च ॥४/२॥ कारिकाशब्दार्थस्तु स्पष्टः । औदार्यादिलक्षणानि त्वनुपदमेव मूलग्रन्थे दर्शयिष्यते । पञ्चमगुणस्थानकं । यावत् अनादेयाद्युदयात् कृतेऽपि तन्निवारणानुकूले यत्ने निरुपक्रमानादेयान्तरायादिकर्मोदयेन कदाचित् जनप्रियत्वं नापि भवेदित्यतः 'प्रायेण' इत्युक्तमिति ध्येयम् ॥४/२॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> कार्पण्यत्यागात् आशयमहत्त्वं औदार्य विज्ञेयम् । तत् गुरु-दीनादिषु कार्ये अत्यन्तं औचित्य वृत्ति ।।४/३।। इयं कारिका अधिकारविंशिकावृत्ती [१९] समुद्भुता । कार्पण्यत्यागादिति तात्पर्यग्राहकम् । लक्षणन्तु चित्तस्याऽसङ्कुचितदानादिपरिणामशालित्वम् । आदिपदेन गुर्वादिसेवा-विनय-परोपकारादिग्रहणम् । अनेन -> क्षुद्रतारूपस्य भवाभिनन्दिलक्षणस्याऽभावो «- द्योतितः । औदार्यपरिज्ञानोपायश्च श्रीशान्तिसूरिभिः उत्तराध्ययनबृहद्वृत्तौ -> परोपकारपूर्विकैव च स्वोपकारप्रवृत्तिरुदाराशयतां ख्यापयति <-- [पृ.१] इत्येवमावेदितः । गुर्वादयः = मातृ-पितृ-कलाचार्य-तज्ज्ञाति-वृद्धधर्मोपदेष्टार इति । तेषां मातृप्रभृतीनां ज्ञातयो भातृ-भगिन्यादयः । वृद्धपदेन श्रुत-बयोवृद्धा ग्राह्याः । तदक्तं योगबिन्दी --> माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः || - यो.बि.११०] इति ।
રતિદાચિની (ગુજરાતી વ્યાખ્યા) તૃતીય પોડશકમાં ધર્મનું લક્ષણ જગાવ્યું. હવે મૂલકારશ્રી ધર્મના લિંગોને વિસ્તારથી જણાવે છે કે – ગાચાર્ગ :- તત્ત્વવિદોએ સિદ્ધ થયેલ આ ધર્મતત્વના સમ્યફ લિંગોને ભવ્ય જીવોને સુખેથી જાણવા માટે કહેલા છે.[૪/૧]
ટીકાર્ય :- પરમાર્થવેદી મહર્ષિઓએ નિષ્પન્ન થયેલ પ્રસ્તુત ધર્મસ્વરૂપના અવિપરીતરૂપે લક્ષણો યોગ્ય જીવોને સુખેથી સમજવા માટે शाखमा देखा छ. [४/१]
તે લક્ષણોને જ સંખ્યાયુક્ત રીતે મૂલકારથી જણાવે છે કે – गाथार्थ :- 121, ति, पाप गुप्ता, निर्मल ओष अने प्राय: सनप्रिया से भसिद्धिन सिंग छे. [४/२] ગાથાર્થ સ્પષ્ટ હોવાથી ટીકાકારથી ન્યાયવિશારદજીએ તેની ટીકા [વિવેચના] કરેલ નથી, મૂલકારથી હવે ઉદારતાનું લક્ષાગ બતાવતાં કહે છે કે –
ગાથા :- લોભના ત્યાગથી મનની મહાનતા એ ઉદારતા જાણવી. ગુરુ, દીન = ગરીબ વગેરે સંબંધી કાર્યને વિશે તે ઉદારતા અત્યંત आथित्यथी प्रवृत्तियागी होय. [४/3]
B२तामा सीयित्य 8वो ટીકાર્ય :- લોભનો મતલબ છે દાન વગેરે પરિણામમાં સંકોચ, તેનો ત્યાગ કરવાથી ચિત્તમાં અસંકુચિતદાનાદિપરિણામયુક્તતાસ્વરૂપ મહત્વ પ્રગટે છે. તેને ધર્મસિદ્ધિના લક્ષાણભૂત ઉદારતા જાણવી. તે ઉદારતા ગુરુ-દીન વગેરે સંબંધી દાનાદિ કાર્યને વિશે અત્યંત ઔચિત્યથી પ્રવર્તનારી હોય. ગુરુ શબ્દનો અર્થ છે માતા, પિતા, કલાચાર્ય, તેઓના ભાઈ-બહેન વગેરે જ્ઞાતિજન, વ્યુતવૃદ્ધ વયોવૃદ્ધ વડીલવર્ગ તથા ધર્મોપદેશક. [આ બધા શિષ્ટપુરુષોમાં ગુરુ તરીકે માન્ય છે-જઓ યોગબિંદુ ગાથા-૧૧૦ તથા દીનાદિનો મતલબ છે ગરીબ, આંધળા, લોભીયા (ભિખારી,
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org