________________
* विभिन्नव्याख्यात्रितयविरोधपरिहारः 88 य उपाय: प्रेक्षोत्प्रेक्षादि: तेज सङ्गता = साध्यत्वाख्यविषयतया तत्सम्बद्धा, अधिकृते धर्मस्थाने यो यत्नातिशयः = अप्रमादभावनाजनितो विजातीय: प्रयत्ज:, तस्मात् । औत्सुवयं = अकाले फलवाञ्छा, तेज विवर्जिता चैव, अकालौत्सुक्यस्य तत्वत आर्तध्यानरूपत्वात् । 'स्वहेतु-स्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो शेयः, कथचिक्रियारूपत्वेऽपि अस्य कथचिदाशयरूपत्वात् ॥३/८||
कल्याणकन्दली परिणति स्थिरा ।।१२।। - इत्येवं टीकाकृता दर्शिता । उद्देश्यताख्यविषयतया = उद्देश्यतासम्बन्धेन । साध्यत्वाख्यविषयतया = विधेयतासम्बन्धेन तत्सम्बद्धा = सन्दरनिपुणोपायगता । यथा घटमद्दिश्य मदारोपणचक्रभ्रमण तदा सा प्रवृत्ति: स्वनिरूपितसाध्यत्वाभिधानविषयतासंसर्गेण मृदारोपणचक्रभ्रमणादिनिष्ठाऽपि स्वनिरूपितोद्देश्यताऽभिधानविषयतासम्बन्धेन घटनिष्ठैव भवति तथैवाऽधिकृतश्रुतग्रहणादिधर्मस्थानमुद्दिश्य विधेये तदुपाये तद्गोचरप्रेक्षोत्प्रेक्षाऽनुप्रेक्षा- परिप्रेक्षा-संप्रेक्षाप्रतिप्रेक्षोपप्रेक्षादी प्रवृत्ती सा प्रवृत्तिः स्वीयविधेयतासम्बन्धेन प्रेक्षादिनिष्ठाऽपि स्वकीयोद्देश्यतासन्निकर्षेण विवक्षितश्रुत-ग्रहणादिधर्मस्थाननिष्ठेव, अन्यथा अङ्गप्रवृत्त्या प्रधाननिष्पत्त्ययोगात् । तस्मात् = अप्रमादभावनाजनित-विजातीयप्रयत्नात् स सम्पद्यते । तेन = अयोग्यकालीनप्रधानफलाभिलाषलक्षणोत्सुक्येन विवर्जिता = विशेषतो रहिता चैव । न हि सम्यगुपायप्रवृत्ता:प्रेक्षावन्तः कार्यात्सुक्यमवलम्बन्ते, सदुपायस्य कार्यमप्रसाध्योपरमाभावादिति व्यक्तं धर्मबिन्दुवृत्तौ [६/५८] । | ननु टीकाकृता योगविंशिकावृत्तौ -> अधिकृतधर्मस्थानोद्देशेन तदुपायविषय इतिकर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणोत्सुक्यविरहितः प्रयत्नातिशयः प्रवृत्तिः - इति प्रवृत्तिलक्षणमनुवदता शीघ्रक्रियासमाप्तीच्छालक्षणमौत्सुक्यमुपदर्शितं, योगलक्षणद्वात्रिंशिकावृत्ती प्रवृत्तिलक्षणव्याख्याने --> अधिकृतेतरकार्याभिलाषेण रहिता «- [द्वा.द्वा.१०/१२ पृ.१२०] इत्येवं बदता अधिकृतान्यफलेच्छालक्षणमौत्सुक्यमावेदितं, प्रकृते चाऽकालफलेच्छालक्षणमौत्सुक्यमुक्तमिति कथं नैकस्यैव टीकाकृतो व्याख्यायां विरोध इति चेत् ? अत्रोच्यते, योगविंशिकावृत्ती स्वरूपमुखेन लक्षणमौत्सुक्यस्योक्तम्, योगलक्षणद्वात्रिंशिकायां इह च हेतुमुखेन तनिरूपितमिति न विरोधलेशोऽपि । हेतुमुखेन व्याख्याया अपि सम्मतत्वात् । अत एव धर्मबिन्दुवृत्ती श्रीमुनिचन्द्रसूरिभिरपि --> औत्सुक्यं काटारूपम् - [ध.बि.८/४३ वृ.पृ.१९५] इति प्रोक्तम् । यद्यपि अधिकृतान्यकार्याभिलाषस्य वस्तुतो वक्ष्यमाणरीत्या [१४/९] अन्यमुद्दोषात्मकत्वमेव तथापि अकालफलेच्छावत् तस्याऽपि शीघ्रक्रियासमाप्तीच्छाहेतुत्वात हेतु-हेतुमतोरभेदोपचारेण तस्यौत्सुक्यत्वाभिधानमपि सङ्गतमेव । एतेन --> ‘औत्सुक्यं = त्वराभिलाषातिरेक' - इति सुगमार्थकल्पनाकारवचनमपि फल-फलवदर्भयघटितौत्सुक्यप्रतिपादनपरमिति प्रदर्शितम. त्वराजनकत्वादकालफलाभिलाषस्य । न चास्य प्राशस्त्यम्, अकालौत्सुक्यस्य = अकालफलाभिलाषस्य तत्त्वतः = परमार्थतः आर्तध्यानरूपत्वात् । तदुक्तं मूलकाररेव धर्मबिन्दी -> अकालौत्सुक्यस्य तत्त्वतः तत्त्वात् -- [८/५५] इति । --> तत्त्वात् = आर्तध्यानत्वादिति - तवृत्ती। अत एवोक्तं योगदृष्टिसमुचयेऽपि -> अत्वरापूर्वकं सर्वं, गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ||-यो. द.५१] इति । वस्तुत औत्सुक्यमकालकाल एव भवति, यधोक्तं कर्णपूरेण आनन्दवृन्दावने ---> न ह्यौत्कण्ठ्यं भवति समया|पेक्षमुत्कण्ठितानाम् «- [२२/१३] । अत एव भगवद्गीतायामपि -> कर्मण्येवाधिकारस्ते मा फलेषु कदाचन -- [२/ ४७] इति वदता औत्सुक्यपरिहार्यता दर्शिता । ___ इत्थञ्च स्वहेतु-स्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः इति । प्रतिपादितप्रणिधानजन्यत्वात् यद्वा अप्रमादभावनाजनिताऽधिकृतधर्मस्थानगोचरप्रयत्नजन्यत्वात् स्वस्य हेतुशुद्धिः = हेतूपहितशुद्धिः, अकालफलाभिलाषराहित्य-प्रशस्तकुशलोपायविधेयकत्वाभ्यां स्वरूपशुद्धिः, अभिनवश्रुतग्रहणाद्यधिकृतस्थानोद्देश्यकत्वात् प्रकृतेऽनुबन्धशुद्धिश्चाऽवसेया । न च प्रवृत्तेराशयात्मकता कथं ? अधिकृतधर्मस्थानोद्देश्यक-तदुपायविधेयक-यत्नातिशयजन्यत्वेन क्रियात्मकत्वस्यैव न्याय्यत्वादित्यारेकणीयम्, कथश्चित् = फलमुखेन क्रियारूपत्वेऽपि अस्य = प्रवृत्तिपदप्रतिपाद्यस्य कथञ्चित् = अन्त:करणगतस्थिरपरिणतिरूपहेतुमुखेन आशयरूपत्वात् =
ટીકાર્ચ :- વિવક્ષિત ધર્મસ્થાનમાં જ ઉદ્દેશ્યતા નામની વિષયતાથી જે પ્રવૃત્તિ હોય તે સાધતા નામની વિષયવારૂપસંબંધથી સુંદર અને નિપુણ એવા પ્રેક્ષ-ઉન્મેક્ષા [અનુપ્રેક્ષા-ઉહાપોહ વગેરે ઉપાયથી વિશિષ્ટ હોય, કેમ કે અપ્રમાદભાવનાથી ઉત્પન્ન થયેલ|| वितीय प्रयत्न(यत्नातिशय)ना ली ते न्य. ते गाणे वे७।१३५ मौत्सुध्ययी रहित सोय; 11 मौत्सुम्य વાસ્તવમાં આર્તધ્યાનસ્વરૂપ છે. આ રીતે હેતુ, સ્વરૂપ અને અનુબંધથી શુદ્ધ થયેલ હોય તેને પ્રવૃત્તિ સ્વરૂપ આશય = અધ્યવસાય જાણવો. જો કે તે કથંચિત્ ક્રિયા સ્વરૂપ છે. તો પણ કથંચિત આશયભિન્ન હોવાથી તેને આશયસ્વરૂપ કહી શકાય છે.[૩/૮] १. मुद्रितप्रती 'सहेतु...' इति पाठः । प्रत्यन्तरे ‘स हेतु' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org