________________
8 स्वरूपमुखेन प्रणिधानव्याख्या
|| संस्कारात्मनाऽ विचलितस्वभावच । तदधः = स्वप्रतिपन्नधर्मस्थानादधस्तनगुणस्थानवर्तिजीवेषु कृपानुगं = करुणानुयायि चैव न तु हीनगुणत्वात् तेषु द्वेषान्वितम् । च = पुनः परार्थनिष्पत्तिसारं = परोपकारसिद्धिप्रधानं, सर्वस्या अपि सतां प्रवृत्तेः उपसर्जजीकृतस्वार्थ- प्रधानीकृतपरार्थत्वात् । निरवद्यं यद् वस्तु अधिकृतधर्मस्थाजसियनुकूलं प्रतिदिजकर्तव्यं तद्विषयं तद्विषयध्यानम् ॥३ / ७||
=
कल्याणकन्दली क्रियाविरहकाले व्यासङ्गदशायां वा वासनारूपेण अविचलितस्वभावञ्च स्थिरप्रकृतिकञ्च, अन्यथा क्रियावैफल्यापत्तेः । न च व्यासङ्गदशायां कुत: संस्कारात्मना तदचलस्वभावमिति शङ्कनीयम्, रिरंसातिरेकात् स्वभर्तुः पुरुषान्तरे प्रतिबद्धचित्ताया नार्याः तत्रैव सदा मन: परिणामारोहवत् विदारितातितीव्रराग-द्वेषपरिणामस्योत्तमभावदर्शनदायात् तत्रैव चित्तपरिणत्यारोहात् तदुक्तं योगबिन्दौ --> न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्यापि तत्र चित्तं न जायते ॥ २०५ ॥ - इति । इत्थमेव सानुबन्धक्षयोपशमसम्पत्तेः । न च तथाप्यभिन्नग्रन्थेः कथं व्यासङ्गादिदशायां संस्कारविधयाऽविचलितस्वभावता ? इति शङ्कनीयम्, सम्यक्प्रतिज्ञामहिम्नैव तदुपपत्तेः, यथा द्विघटिकादिरूपकालमाने जपे षण्मासपर्यन्तं प्रतिज्ञाते षण्मासं यावत् प्रतिज्ञातद्विघटिकादिरूपकालादन्यत्र जपस्याऽकरणेऽपि जपे एव मनोवृत्तिर्जायते । तदुक्तं योगबिन्दावेव -> यथाप्रतिज्ञमस्येह कालमानं प्रकीर्त्तितम् । अतो ह्यकरणेऽप्यत्र भाववृत्तिं विदुर्बुधाः || मुनीन्द्रैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदाऽतो भावतो धर्मः, क्रियाकाले क्रियोद्भवः ।। -- [ ३८७/३८८] इति । एतादृशकरणप्रणिधानादपि सानुबन्धपुष्टिर्जायते । एवमेव महारम्भ- महापरिग्रहाद्यकरणप्रणिधानादपि सानुबन्धशुद्धिः प्रजायते, तद्वृत्तिनिरोधात् । तदुक्तं योगविन्दावेव अतोऽकरणनियमात् तत्तद्वस्तुगतात्तथा । वृत्तयोऽस्मिन्निरुध्यन्ते तास्तास्तद्वीजसम्भवाः ||४१५|| ←
Jain Education International
=
७३
ननु योगदीपिकायां ‘धर्मस्थाने' ति किमर्थमुक्तं ' धर्मे' त्येवोच्यताम् । न हि धर्म- धर्मस्थानयोः कश्विद्भेद: । ततश्च 'अधिकृतधर्मप्रतिज्ञासमये' इत्येव चारु, लाघवादिति चेत् ? न, बाह्यसत्क्रियाया यद्वा निरनुबन्धिशुभपरिणामस्य यद्वा तदुपात्तपुण्यस्य यद्वा तत्पुण्यविशेषविपाकस्यापि धर्मत्वं नयविशेषेण सम्मतम् । धर्मस्थानञ्च विधिविशुद्धाध्यवसायविशेषः निश्चयनयेन, निश्चयानुगृहीतव्यवहारनयेन तु तथाविधाध्यवसायानुविद्धोऽहिंसादिसम्बन्धी दृढ आचारः, यस्मिन् धर्म उत्पद्यते तिष्ठति वर्धते प्रगुणीभवति अविनाशी च भवति । धर्मस्थानञ्च क्वचित् बाह्यक्रियाद्यात्मकं धर्मं विनाऽपि प्रगुणीभवति । अत एव धर्मादपि धर्मस्थानस्य गरीयस्त्वमामनन्ति महर्षयः । इत्थञ्चावश्यक्लृप्तत्वेन धर्मस्थानपदोपादानमकारि टीकाकृता । अनेन पाप पापस्थानकयोरपि भेदादिकं सूचितमित्यलं प्रसक्तानुप्रसक्तेन ।
सतां प्रवृत्तेः उपसर्जनीकृतस्वार्थ- प्रधानीकृतपरार्थत्वात् गौणीकृतस्वार्थत्वेन प्रधानीकृतपरोपकारत्वात् । अत एव ||‘परोपकाराय सतां विभूतय' इत्याद्युक्तिरपि सुप्रसिद्धा । क्वचिदुद्भूततया परार्थप्राधान्यादर्शनेऽपि संस्काररूपेण तदस्तित्वमभ्युपेयमेव, अन्यथा सत्त्वहाने:, भावपरोपकारस्य महोपकारित्वं तु प्राक् [ १/३, १/१६] निरूपितमेव |
->
निरवद्यं यद्वस्तु अधिकृतधर्मस्थानसिद्ध्यनुकूलं प्रतिदिनकर्तव्यं तद्विषयमिति । इदञ्च तत्समये स्थितिमदि’त्यंशेनैव लभ्यते इति परिचायकमेव न तु व्यावर्तकं विशेषणम् । न हि प्रधानार्थी प्राज्ञोऽङ्गमुपेक्षते । इदमेवाऽभिप्रेत्य टीकाकृताऽपि योगविंशिकावृत्ती हीनगुणद्वेषाभाव - परोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य कर्तव्यतोपयोगः प्रणिधानमि' - [यो.वि. १/ वृ. पू. २] ति तल्लक्षणं निष्टङ्कितम् । योगलक्षणद्वात्रिंशिकायां तु टीकाकृता -> चित्तं पापविवर्जितं = सावद्यपरिहारेण निरवद्यवस्तुविषयम् <--- - [ द्वा.द्वा.१०/११ वृ. पृ. १२०] इति स्वरूपमुखेन प्रणिधानव्याख्यानमुक्तमिति नाऽभव्यादिद्रव्यलिङ्गिगते सदતેઓના વિશે હેપવાળું. વળી, પ્રણિધાન પરોપકારસિદ્ધિપ્રધાન હોય છે; કારણ કે સજ્જનોની સર્વ પ્રવૃત્તિમાં સ્વાર્થ ગૌણ હોય છે અને પરાર્થ = પરોપકાર મુખ્ય હોય છે. તેમ જ પ્રણિધાન વિવક્ષિત સ્વીકૃત ધર્મસ્થાનની સિદ્ધિને અનુકૂલ એવા દરરોજના જે નિર્દોષ કર્તવ્ય હોય છે તદ્વિષયક ધ્યાનસ્વરૂપ હોય છે. [૩/૭]
विशेषार्थ :પ્રણિધાનનો અર્થ છે ધ્યાન-ઉપયોગ-દૃઢવિચાર. તેના ૪ વિશેષણ છે. [૧] પ્રથમ વિશેષણ એ છે કે તે ધ્યાન વિવક્ષિત ધર્મસ્થાનની પ્રતિજ્ઞાની સમયમર્યાદામાં પ્રતિષ્ઠિત હોય, ગમે તેવી પ્રતિકૂળતા વચ્ચે પણ તે વિચલિત ન થાય, તેની સિદ્ધિ સુધી ક્રિયાસ્વરૂપ નિમિત્તને પામીને પ્રતિષ્ઠિત = અભિવ્યક્તસ્વભાવવાળું હોય, અન્ય કામકાજ કરતી વખતે પણ સંસ્કારરૂપે તો તે અવિચલિત સ્વભાવવાળું જ હોય. ઉદાહરણ તરીકે રોજ ૫ કલાકના નૂતન સ્વાધ્યાયની ૬ મહિના સુધી પ્રતિજ્ઞા કરી હોય તો દ મહિનાનો સ્વાધ્યાય સિદ્ધ ન થાય ત્યાં સુધી તદ્વિષયક ઉપયોગ સ્થિર રહેવો જોઈએ. ૬ માસ સુધી રોજ ૫ કલાકના સ્વાધ્યાયના નિમિત્તે તો તે ઉપયોગ દૃઢતાથી પ્રતિષ્ઠિત હોય જ. પરંતુ ૬ મહિના પર્યન્ત પ્રતિદિન અધ્યયનના ૫ કલાક સિવાયના સમયમાં પણ ४. 'सुजनत्वहाने:' इत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org