________________
२८८
- आयसंगसूत्रन व्याभ्यानो - ४
-
1028
"से जहावि (सेवि) कुंभे हरए विणिविट्ठचित्ते
पच्छन्नपलासे उम्मग्गं से नो लहइ" से शब्दस्तच्छब्दार्थे, अपिशब्दश्चत्तार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूमो महाहदे विनिविष्टं चित्तं यस्यासो विनिविष्टचित्तो-गाद्धर्यमुपागतः पलाश:-पत्रेः प्रच्छन्नः पलासप्रच्छन्नः, सूत्रे तु प्राकृतत्वाद्वयत्यय: 'उम्मग्गति विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, उर्द्ध वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभत इत्यक्षरार्थः ।
भावार्थस्त्वयम् - कश्चिद् हृदो योजनशत विस्तीर्ण: प्रबलशेवालघनकठिनविताना च्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विस्त्रसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत्, तत्र चैकेन कूर्मेण निजयूथात् प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चितथाविधभवितव्यतानियोगेन तद्रन्ध्र ग्रीवानिर्गमनमाप्तं, तत्र चासो शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्ण नभस्तलममीक्षाञ्चक्रे, तदृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि, यदि तानि मद्वाणये तत्स्वर्गदेश्यमदृष्टपूर्वं मनोरथानामस्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थ सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयातीति।
अस्यायमर्थोपनयः-संसारहदे जीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः संसारहन्तर्वर्तिनस्तदवाप्तिः ? तस्मादवाप्य भवशतदुरापं कर्मविवरभूतं सम्यक्त्वं क्षणमप्येकं तत्र न प्रमादवता भाव्यमिति तात्पर्यार्थः ।"
“से जहावि कुंमे हरए विणिविट्ठचित्ते
पच्छत्रपलासे उम्मग्गं से नो लहइ" – આ સૂત્રના અવયવનો ટીકાકાર મહર્ષિ શીલાંકસૂરિજી મહારાજાએ - પ્રથમ અક્ષરાર્થ કર્યો, તે પછી ભાવાર્થ ખોલ્યો અને તે પછી તેનો ઉપનય કાઢીને બતાવ્યો. ખરેખર, ઉપકારી મહાપુરુષોએ વસ્તુને સમજાવવામાં કશી જ કમી નથી રાખી. જો ઉપકારી મહર્ષિઓએ આવી જાતનો ઉપકાર ન કર્યો હોત, તો આપણે તો અર્થગંભીર સૂત્રો દ્વારા કશું જ ન પામી શકત.
ઉપકારી પુરુષોએ સૂત્રો ઉપર રચેલી નિયુક્તિ, ભાષ્ય, ચૂર્ણિ અને ટીકાને નહિ માનનાર, મૂળ સૂત્રોના ભાવને ન પામી શકે એમાં શું આશ્ચર્ય છે? સૂત્રનાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org