________________
40
કેવલિભુક્તિવ્યવસ્થાપનાવિંશિકા/બ્લોક-૧૬ दोधार्थ :
યત્ન વગર નિસર્ગથી જો દેશનાદિ ઈચ્છાય છે, તો તે પ્રકારે જ ભક્તિ આદિ થાય. દેશનાદિ અને મુત્યાદિ ઉભયમાં દષ્ટબાધા સમાન छ. ||१७|| टी :
यत्नमिति-यत्नं-ताल्वोष्ठादिव्यापारजनकप्रयत्नं, विना निसर्गात् स्वभावात्, चेत्, देशनादिकमिष्यते भगवतः, तदा भुक्त्यादिकं तथैव यत्नं विनैव स्यात्, दृष्टबाधोभयो: पक्षयोः समा, भुक्तेरिव देशनाया अपि यत्नं विना क्वाप्यदर्शनात्, चेष्टाविशेषे यत्नहेतुत्वकल्पनस्य चोभयत्र साम्यात् ।
ननु प्रयत्नं विना चेष्टामात्रं न भवत्येव, देशना च भगवतामव्यापृतानामेव ध्वनिमयी सम्भवत्यक्षरमय्यामेव तस्यां यत्नजन्यत्वे(ने)च्छाजन्यत्वादिनियमावधारणादिति न साम्यं, यदाह समन्तभद्रः - “अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते" ।। (रत्नकरण्डक श्राव. १/८) इति । मैवम्, शब्दस्य शब्दान्तरपरिणामकल्पनस्य साजात्येन न्याय्यत्वेऽपि ध्वनेस्तकल्पनस्यातिशयतोऽप्यन्याय्यत्वात्, भगवद्देशनाया ध्वनिरूपत्वेऽपि वाग्योगापेक्षत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नानुसरणध्रौव्यात्, अन्यथाऽपौरुषेयमागमं वदतो मीमांसकस्य दुर्जयत्वापत्तेरिति न किञ्चिदेतत् । अथ सुहृद्भावेन पृच्छामाबुद्धिपूर्वकप्रवृत्ताविच्छाया हेतुत्वात् कथं केवलिनो देशनादावाहारादौ च प्रवृत्तिरिति चेत्, सुहृद्भावेन ब्रूम:-बुद्धिः खल्विष्टसाधनताधीरन्यस्यातिप्रसक्तत्वात्तत्पूर्वकत्वं च यदीष्टसाधनताधीजन्यतावच्छेदकं तदाप्यबुद्धिपूर्वकप्रवृत्तेर्जीवनयोनिभूताया इव भवोपग्राहिकर्मवशादुपपत्तेर्न कश्चिद्दोष, इति प्रवृत्तिसामान्ये तु योगानामेव हेतुत्वादिच्छापूर्वकत्वमर्थसमाजसिद्धमेव । यदवदाम - “परदव्वम्मि पवित्ती ण मोहजणिया व मोहजण्णा वा ।। जोगकयाहुपवित्तीफलकंखारागदोसकया" ।। (अध्यात्ममतपरीक्षा/गाथा-२२) इति । अधिकमन्यत्र ।।१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org