________________
ઈશાનુગ્રહવિચારદ્વાચિંશિકા/શ્લોક-૧ કરણ અને ભાવને સાધનારી વ્યુત્પત્તિથી આ ત્રણ અર્થો થાય છે અર્થાત્ ભોગનું કર્મ વિષયો છે, ભોગનું કરણ ઇન્દ્રિયો છે અને ભોગનો ભાવ=ભોગનું संवहन, सुण-दुः५ छे. टी :
इदमत्र तात्पर्य - चित्तं हि द्विविधं साशयमनाशयं च, तत्र योगिनामनाशयं, तदाह-"(तत्र)ध्यानजमनाशयम्" [४-६] ।। अत एव तेषामशुक्लाकृष्णं कर्म, तदाह-“कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम्" [४-७] ।। शुभफलदं कर्म यागादि शुक्लं, अशुभफलदं ब्रह्महत्यादि कृष्णं, उभयसंकीर्णं शुक्लकृष्णं, तत्र शुक्लं दानतपःस्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकाणां, शुक्लकृष्णं मनुष्याणां, योगिनां तु विलक्षणमिति, साशयं चित्तमयोगिनां, तत्र फलत्यागानुसन्धानाभावात् फलजनकः कर्माशयः, “ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानां” [४-८] ।। द्विविधा हि कर्मवासनाः-स्मृतिमात्रफला जात्यायुर्भोगफलाश्च, तत्राद्या येन कर्मणा यादृक् शरीरमारब्धं देवमानुषतिर्यगादिभेदेन जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्यारम्भे तदनुरूपामेव स्मृतिं जनयन्ति, अन्यादृशीं च न्यग्भावयन्ति देवादिभवे नारकादिशरीरोपभोगस्मृतिवत्, न चातिव्यवहितयोः स्मृतिसंस्कारयोर्जन्यजनकभावानुपपत्तिः, दूरानुभूतस्याप्यविचलितचित्ते वासनात्मना स्थितस्योद्बोधविशेषसहकारेण स्मृतिविशेषपरिणामे व्यवधानाभावात्, तदुक्तं-“जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्" [४-९] ।। ताश्च सुखसाधनावियोगाध्यवसायसंकल्पस्य मोहलक्षणस्य बीजस्यानादित्वादादिरहिताः, तदुक्तं-“तासामनादित्वं चाऽऽशिषो नित्यत्वात्" [४-१०] ।। द्वितीया अपि चित्तभूमावेवानादिकालं संचिता यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं कार्यमारभन्त इति, तदेतत्कर्माशयफलं जात्यादिविपाकमिति, यद्यपि सर्वेषामात्मनां क्लेशादिपरामर्शो नास्ति, तथापि ते चित्तगतास्तेषां व्यपदिश्यन्ते, यथा योधगतो जयाजयो स्वामिनः, अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्तीति विलक्षणोऽयमन्येभ्यः ।।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org