________________
परिशिष्ट A
वज्रलेप -
मंदिर मकान आदि अधिक मजबूत करवाने माटे प्राचीन जमानामां भीत आदिनी उपर जे लेप करवामां आवतो हतो, ते बृहत्संहितामां वज्रलेपना नामथी नीचे प्रमाणे प्रसिद्ध छेआमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः ।।
बीजानी शल्लकीनां धन्वनवल्को वचा चेति ॥१॥ एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च । अवतार्योऽस्य च कल्को द्रव्यैरेतैः समनुयोज्यः ॥२॥ श्रीवासक-रस-गुग्गुलु-भल्लातक-कुन्दुरूक-सर्जरसैः ।
अतसी-बिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥३॥ तिन्दुकं तिन्दुकफलं आममपक्कम् । कपित्थकं कपित्थकफलमामेव । शाल्मल्याः शाल्मलिवृक्षस्य च पुष्पम् । शल्लकीनां शल्लकीवृक्षाणां बीजानि । धन्वनवल्को धन्वनवृक्षस्य वल्कस्त्वक् । वचा च, इत्येवं प्रकारः । एतैर्दैव्यैः सह सलिलद्रोणः क्वाथयितव्यः । द्रोणः पलशतद्वयं षट्पञ्चाशदधिकम् । यावदष्टभागावशेषो भवति, द्वात्रिंशत्पलानि अवशिष्यन्त इत्यर्थः । ततोऽष्टभागावशेषोऽवतार्योऽवतारणीयो ग्राह्य इत्यर्थः । अस्य चाष्टभागशेषस्य तद्दव्यैर्वक्ष्यमाणैः कल्कश्चूर्णः समनुयोज्यो विधातव्यः। तच्चूर्णसयुक्तः कार्य इत्यर्थः । कैः इत्याह-श्रीवासकेति श्रीवासकः प्रसिद्धवृक्षनिर्यासः । रसो बोलः, गुग्गुलुः प्रसिद्धः, भल्लातकः प्रसिद्ध एव, कुन्दुरुको देवदारुवृक्षनिर्यासः । सर्जरसः सर्जरसवृक्षनिर्यासः । एतैः तथा अतसी प्रसिद्धा । बिल्वं श्रीफलं एतैश्च युतः समवेतः । अयं कल्को वज्रलेपाख्यः, वज्रलेपेत्याख्या नाम यस्य ॥१॥२॥३॥
अ र, आया ओi, शिमगनस, सा२३० (सालेडो, धुपेडी) पीनयामा વૃક્ષની છાલ અને ઘોડાવજ, એ ઔષધો બરાબર સરખે વજન પ્રમાણે લઈ, પછી તેને એક દ્રોણ અર્થાત્ ૨૫૬ પલ = ૧૦૨૪ તોલા પાણીમાં નાખીને ઉકાળો કરવો. જ્યારે પાણી આઠમો ભાગ રહે ત્યારે નીચે ઉતારી, તેમાં સુરૂવૃક્ષનો ગુંદર (બેરજો), હીરાબોળ, ગુગળ, ભીલામાં, દેવદારનો ગુંદ (કુંદર), રાળ, અળશી અને બીલીફળ એ ઔષધોનું ચૂર્ણ નાંખવું, જેથી વજલેપ તૈયાર થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org