________________
शतक ६.-उदेशक ५. भगवत्सुधर्मस्वामिप्रणीत भगवर्तासूत्र,
३०५ इत्यादि. 'तमुक्काए' ति तमसां तमिश्रपुद्गलानां कायो राशिस्तमस्कायः, स च नियत एव इह स्कन्धः कश्चिद विवक्षिाः ; स च तादृशः पृथ्वीरजस्कन्धो वा स्यात् , उदकरजस्कन्धो वा, न तु अन्यः; तदन्यस्य अतादृशत्व द इति-पृथिव्य-विषयसंदेहाद आहः'किं पुढवी' इत्यादि व्यक्तम् . 'पुडकिए गं' इत्यादि. पृथिवीकायोऽस्येककः कश्चित् शुभो भास्वरः, यः किंविध. ? इगहःदेशं विवक्षितक्षेत्रस्य प्रकाशयति-भास्वरत्वात , मण्यादिवत्. तथाऽस्त्येककः पृथिवीकायो देशं पृथिवीकायाऽन्तरं प्रकाश्यमपि न प्रका. शयति-अभास्वरत्वान, अधोपलवत् . नैवं पुनरकायः, तस्य सर्वस्याऽप्यप्रकाशकत्वात् । ततश्च तमस्कायस्य सर्वथैवाऽप्रकाशकास्वाद अका. यपरिणामता एव. 'एगपएसियाए' त्ति एक एव च-न यादयः, उत्तरा-ऽध प्रति-प्रदेशो यस्यां सा तथा तया-समभित्तितया इत्यर्थः, न च वाच्यम् (कप्रदेशप्रमागया इनि, असंख्यातप्रदे२ विगाहस्वभावत्वेन जीवानां तस्यां जीवाऽवगाहाऽभात्र सङ्गात् , तमस्कायस्य च स्तिबुकाऽऽकाराऽप्कायिकजीवात्मकत्वात् , बाहल्यमानस्य च प्रतिपादयिष्यमाणत्व द इति. 'एत्थ णं' ति प्रज्ञापकाऽऽलेख्यलिखितस्याऽरुणोदसमुद्रादेरधिकरणतोपदर्शन:र्थमुत्तवान् . 'अहे' इत्यादि, अधः-अधस्ताद् मल्लकालसंस्थित:-शराबबुध्नसंस्थानः -समजलान्तस्योपरि सप्तदशयोजनशतानि, एकविंशत्यधिकानि यावद वलयसंस्थानत्वात् , स्थापना. 'केवइयं विखंभेणं ति विस्तारण, क्वचिद आयाम-विक्खंभेणं' ति दृश्यते, तत्र च आयाम उच्चत्वम् इति. 'संखेजवित्थडे ' इत्यादि. संख्यातयोजनविस्तृतः, आदित आरभ्य ऊर्च संख्येययोजनानि यावत् , ततोऽसंख्यातयोजनविस्तृतः-उपरि तस्य विस्तारगामित्वेन उक्तत्वात् . ' असंखेजाई जोयणसहस्साई परिक्खेवेणं' ति संख्यातयोजनविस्तृतोऽपि तमस्कायस्य अल्याततमद्वीपपरिक्षेपनो बृहत्तरत्वा परिक्षेपस्य असंख्यातयोजनसहस्रप्रमाणत्वम् . आन्तर-बहिःपरिक्षेपविभ गस्तु नोक्तः, उभपस्याऽपि असंख्पाततया तुल्यत्वाद् इति. 'देवे णं' इत्यादि. अथ किमिदंपर्यमिदं देवस्य महादिकं विशेषणम् ? इत्याह:--' जाव-इणामेव' इत्यादि. इह यावच्छब्द ऐदंपर्यार्थः, यतो देवस्य महर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाऽभप्रायेणैव प्रतिपादितानि. 'दणामेव इणामेव' त्ति कट्ट' इदंगमनमेवम्-अतिशीघ्रवाऽsवेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम् , अनुस्वागऽश्रवणं च प्राकृतत्वात् , द्विर्वचनं शीघ्रत्वाऽतिशयोपदर्शनपरम् . 'इतिः' उपप्रदर्शनार्थः, कृत्वा विधाय-इति. 'केवलकप्पं ' ति केवलज्ञानक परिपूर्णम् इत्यर्थः. वृद्धयाख्या तु "केवल: संपूर्णः, कल्पते इति कल्पः, खार्यकरणसमर्थो वस्तुरूप इति यावत्-केवलश्चासौ कल्पश्चेति केवलकल्पस्तम् ." 'तिहिं अच्छरानिव्वांएहिं ' ति तिसृभिश्चप्पुटिकाभिरित्यर्थः. तिसत्तखुत्तो ' ति त्रिगुणा: सप्त, त्रिसप्तवारान्-त्रिसप्तकृत्व-ए। विंशतिवारान् इत्यर्थः. 'हवं' ति शीत्रम् , 'अत्थेगइयं' इत्यादि. संख्यातयोजनमानं व्यतिव्रजेत् , इतरं तु न इति. 'उराला बलाहय' ति महान्तो मेघः, 'संसेयंति ' त्ति संविद्यन्ति तजनकपुद्गलस्नेहसंपत्या, संमूर्च्छन्ति तत्पुद्गलमीलनात् तदाकारतया उत्पत्तेः. ' तं भंते !' ति तत् संस्वेदनम् , संमूर्छनम् , वर्षणं च. 'बायरे विजुयारे ' त्ति इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात् , किं तु देवप्रभावजनिताः भास्वगः पुद्गलास्ते इति. णण्णस्य विग्गहगइसमावण्णएणं ' ति न इति योऽयं निषेधो बादरपृथिवी-तेजसोः-सोऽन्यत्र विग्रहगतिसमापन्नत्वाद-विग्रहगत्या एव बादरे ते भवतः. पृथिवी हि बादरा रत्नप्रभाद्यामु अष्टासु पृथिवीषु. गिरि-विमानेषु; ते जन्तु मनु नक्षत्र एवेति. तृतीया चेह पञ्चम्यर्थे प्राकृतत्वाद इति. पलियरस ओ पुण अत्यि'त्ति परिपार्श्वत: पुन: सन्ति तमस्कायस्य चन्द्रोदय इत्यर्थः. 'क दूसणिया पुण साइ' ति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावात् तत्प्रभाऽपि तत्राऽस्ति ? सत्यम् , केवलं कम् आत्मानं दूषयति-तमस्कायपरिणामेन परिणमनात् , दूपणा सैव दूषणिका, दीर्घता च प्राकृतत्वात् , अत: सती अप्यसी असतीति. 'काले ' त्ति कृष्णः, 'कालोभासे' त्ति कालोऽपि कश्चित् कुतोऽपि कालो नाऽवभासते, इत्यत आह:-कालाऽवभासः, कालदीप्तिर्वा. 'गंभ र-लोमहरिसजणणे ' ति गम्भीरश्वासी भीषणत्वात्-रोमहर्षजननश्चेति.- गम्भीररोमहर्षजननः. जनकत्वे हेतुमाहः-' भीमे' ति भीमः, ' उत्तासणए' ति उत्कम्पहेतुः, निगमयन्नाहः- परम' इत्यादि. यत एवम् अत एवाह:-'देंवे विं णं' इ.यादि. ‘तप्पडमयाए 'त्ति दर्शनप्रथमतायाम् , 'खुभाएज' त्ति स्कुन्नीय त्-क्षुभ्येत् , ' अहे गं' इत्यादि, अथैनं तमस्कायमभिसमागच्छेत् प्रविशेत् , ततो भयात् 'सीहं सहिं । ति कायगतेरतिवेगेन, ' तरिय तुरियं' ति मनोगतेरतिवेगात् , किमुक्तं भवति-क्षिप्रमेव. वीइवएज' त्ति व्यतिबजेद इति. 'तम इतिवा' इत्यादि, तम:-अन्धाररूपत्व द इति एतत् , 'वा' विकल्यार्थः. तमरक य इति वा-अन्धकारराशिरूपत्वात् , अन्धकारम्-इति वा तमोरूपत्वात् , महान्धकारम्-इति वा महातमोरूपत्वात् , लोकान्धकारम्-इति वा लोकमध्ये तथाविधस्य अन्यस्य अन्धकारस्य अभावात् , एवं लोकतमिश्रम् इलि वा, देवान्धकारम्-इति वा-देवानामपि तत्र उद्योताऽभावेन अन्धकारात्मकत्वात् , एवं देवतमित्रम्-इति वा, देवाऽरण्यम्-इति वा-बलवदेवभयाद नश्यतां देवानां तथाविधाऽरण्पमिव शरणभूतत्वात्. देवव्यूह इति वा-देवानां दु:दत्वाद् व्यूह इव चक्रादिव्यूह इव देवव्यूहः. देवपरिघ इति वा-देवानां भयोत्पादकत्वेन मनोविघातहेतुत्वात्. देवप्रतिक्षोभ इति वा-तर भहेतुत्वात् , अरुणोदक इति वा समुद्रः-अरुणोदकसमुद्र जलविकारत्यादिति. पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्ट', अथ पृथव्य-प्के पर्यायताम् , पृथव्य-कायौ च जीव-पुद्गलरूपाविति तत्पर्यायतां च प्रश्नानाहः-'तमुक्काए णं' इत्यादि. बादखायुवनस्पतयः, साश्च तत्र उत्पद्यन्ते-अप्काये तदुत्पत्तिसंभवात् , नतु इतरे-अस्वस्थानत्वात् , अत उक्तम्:-'नो चेव णं' इत्यादि.
१. स्थापमा अनुवादे दर्शयिष्यतेः- अनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org