________________
१२५२]
દર્શન અને ચિંતન. शुष्कवादो विवादश्च धर्मवादस्तथापरः । इत्येष त्रिविधो वादः कीर्तितः परभर्षिभिः अत्यन्तमानिना साध क्रूरचितेन च दृढम् । धर्मद्विष्टेन मूढेन शुष्कवादस्तपस्विनः विजयेऽस्यातिपातादि लाघवं तत्पराजयात् । धर्मस्येति द्विधाप्येष तत्त्वतोऽनर्थवर्धनः लन्धिख्यात्यर्थिना तु स्यादुःस्थितेनामहात्मना । छलजातिप्रधानो यः स विवाद इति स्मृतः ॥४॥ विजयो ह्यत्र सन्नीत्या दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादिदोषो दृष्टविघातकृत् परलोकप्रधानेन मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन धर्मवाद उदाहृतः विजयेऽस्य फलं धर्मप्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च नियमात्तत्पराजयात् देशाद्यपेक्षया चेह विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यः विपश्चिता
॥
८
॥
॥२॥
॥३॥
विषयो धर्मवादस्य तत्तत्तंत्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव धर्मसाधनलक्षणः पंवैतानि पवित्राणि सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् क्व खल्वेतानि युज्यन्ते मुख्यवृत्त्या व वा न हि । तंत्रे तत्तंत्रनीत्यैव विचार्य तत्त्वतो ह्यदः धर्माथिभिः प्रमाणादेर्लक्षण न तु युक्तिमत्। प्रयोजनाद्यभाबेन तथा चाह महामतिः "प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम्" प्रमाणेन विनिश्चित्य तदुच्येत न वा ननु । अलक्षितात् कथं युक्ता न्यायतोऽस्य विनिश्चितिः
॥४॥
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org