________________
નિત્ય આત્મામાં જન્મ-મરણ ઘટાવવાની રીત रेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते । स एव च संसारः । तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदीयात् ? तदुक्तम्
जरावियोगमरणव्याधयस्तावदासताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ 156. N४२ - आत्मा नित्य छ, त म अने भरण्य मन्ने नयी अभ અમે કહ્યું છે.
નૈયાયિક – તે સાચું, પરંતુ આત્માના શરીર વગેરે સાથેના સંયોગ-વિગને જન્મ-મરણ નામો આપવામાં આવ્યાં હોઈ, દેષ નથી આવતો. મરણને આત્માનો ભેગાયતન (=શરીર, ઇન્દ્રિય વગેરેથી વિયોગ કહેવામાં આવેલ છે. જેમને આમાનો તેમની સાથે સંગ કહેવામાં આવેલ છે. ફળ આપવા તત્પર થયેલા કમ સંસ્કારી અનુસાર અનુરૂપ દેહ ઇન્દ્રિય આદિના ત્યાગ પ્રહણ જ મરણ જન્મ છે અને ક્રિયાની અભ્યાવૃત્તિ દ્વારા પુન: પુનઃ થતા મરણ -જન્મ જ પ્રભાવ છે એમ અમે કહીએ છીએ. તે જ સંસાર છે. આ પ્રમાણે વિચાર કરતાં કેને ચિત્તમાં નિર્વેદ ન જાગે. તેથી કહ્યું છે કે જરા, વિયેગ, મરણ, વ્યાધિને તો બાજુએ રાખે, વારંવાર લેવો પડતો જન્મ જ શું ધીર પુરુષને શરમજનક નથી ?
157. अथ यैरुत्पद्यमानैदें हेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता, 'व्यक्तात् व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यात्' इति न्यायसूत्र ४.१.११] । व्यक्तादिति कपिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ कार्ये कारणत्वमाह । तथा हि - पार्थिवमाप्यं तैजसं वायवीयमिति चतुर्विधं कार्य स्वावयवाश्रितमुपलभ्यते । तत्र यथा घटः सावयवः कपालेष्वाश्रितः, एवं कपालान्यपि सावयवत्वात् तदवयवेषु, तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद्यावत् परमाणवो निरवयवा इति । यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम् । तत ऊर्ध्वमनुमानम् । तदपि हि कार्य स्वावयवाश्रितम् , सावयवत्वात् , परिदृश्यमानकार्यवत् । निरवयवत्वे तु तस्य परमाणुत्वमेव । परमाणुषु च सावयवत्वस्य च हेतारसिद्धत्वान्नावयवान्तरकल्पना । तेषां हि सावयवत्वे तदवयवाः परमाणवो भवेयुः । उत्पत्तिक्रमवत् विनाशक्रमेणापि परमाणवोऽनुमीयन्ते । लोष्टस्य प्रविभज्यमानस्य भागाः, तद्भागानां च भागान्तराणीत्येवं सावद्यावदशक्यभङ्गत्वमदर्शनविषयत्वं च भवति । तद्यतः परमवयवविभागो न सम्भवति ते परमाणव उच्यन्ते । तेष्वपि हि विभग्यमानेषु तदवयवाः परमाणवो भवेयुः । तदेवमुत्पत्तिविनाशक्रमस्येदृशो दर्शनात् सन्ति परमाणवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org