________________
तं श्रीवीरं भुवनभुवनाभोगसौभाग्यशालिज्ञानादर्शं परमकरुणाकोमलं स्तोतुमी ||१|| दिव्यश्रव्यध्वनिमभिनवच्छत्रसच्चामरौघं । हृद्यातोद्यप्रवरकुसुमाशोक शोभं सभायाम् ॥ स्वामिन्सिंहासनमधिगतं भव्यभामण्डलं त्वां । ध्यात्वा भूयः कलयति कृती को न सालम्बयोगम् ||२|| गाढाभ्यस्तात्त्रिभुवनगुरो किं न तस्मादकस्मात् । क्षीणे पापे प्रभवति निरालम्बनो योगमार्गः ॥ यस्मादासोविर्भवति भवतो दर्शनं केवलाख्यलक्ष्यावेधप्रगुणितधनुर्मुक्तकाण्डोपमानात् ||३|| मध्ये त्वाभ्यां भवति चरमावञ्चके नाम योगे दिव्यास्त्राणां परमखुरली मोहसैन्यं विजेतुम् ॥ तत्प्रौढैकक्रमपरिणमच्छास्त्रसामर्थ्ययोगा रोगातङ्कोज्झितपदमिता प्रातिभज्ञानभाजः ||४|| आस्तामस्ताहितहितदृशो दूरवार्ता तवासौ । इच्छायोगादपिवयमिमे यत्सुखं सम्प्रतीमः || तस्याधस्तात्सुरपतिपदं चक्रिणां चापि भोगाः । योगावेशाद्यदपि गदितं स्वर्गपुण्यं परेषाम् ||५|| सेयं भक्तिस्तव यदि मयि स्थैर्यवत्येव भर्तस्तत्प्रत्यूहं तदिह कलयन्कामये नैव मुक्तिम् ॥ पूर्वं पश्चादपि च विरहः कार्यतो यश्च न स्यात् । भूतो भावी तदयमुभयोः किं न मुक्तेर्विभागः ||६|| मुञ्चाम्येनां न खलु भगवन्क्वापि दुःखे सुखे वा । तत्त्वज्ञाने प्रणयति पुनः सङ्गते सा यदास्ते || ईर्ष्यालेशैर्विषसमयत: शिक्षणीयास्तया स्यु
વિશિષ્ટ જિન સ્તવનો
Jain Education International 2010_02
For Private & Personal Use Only
૧૯૩
www.jainelibrary.org