________________
३३०
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। सूर्योऽप्यथो तमसमांसलमोहभूपं ।
वीक्ष्य स्वकीयरिपुतुल्यममूं च चित्ते॥ निध्याय तस्य मुखदर्शनतो विषण्णो ।
रोषादिवारुणतरः स गतोऽन्यदेशम् ।। ४० ॥
હવે તે સૂર્ય પણ શોકથી (અંધકારથી) પુષ્ટ થએલા એવા મોહરાજાને જોઈને, તથા તેને ચિત્તમાં પોતાના શત્રુતુલ્ય જાણીને, તેના મુખને જોવાથી ખેદયુક્ત થયેલો થકો, તથા જાણે ક્રોધથી જ હોય નહીં જેમ, તેમ વધારે લાલ થયો થકો અન્ય દેશમાં ગયો. (अर्थात् मस्त थयो.) घोरांधकारनिकरैः पिहितेऽतरीक्षे ।
स्वस्वानि सैनिकगणाः शिबिराणि जग्मुः ।। अब्जे तदा नभसि वै समुपागते च ।
हृत्कैरवं मिमिल मोहनृपस्य शोकात् ।। ४१ ॥
તે વખતે ભયંકર અંધકારના સમૂહથી આકાશ છવાતે છતે લડવૈયાઓના સમૂહો પોતપોતાના આવાસો પ્રતે ગયા; તથા આકાશમાં ચંદ્ર આવતે છતે મોહરાજાનું હૃદયરૂપી ચંદ્રવિકાસિ કમલ શોકથી બીડાઈ ગયું.
१. तमसं तु निशाचर्म ॥ इति त्रिकांडशेषात् ॥ २. नभोऽतरीक्षं गगनमनंतं सुखवर्त्म खम् ॥ इत्यमरः ।। द्यावापृथिव्योरन्तरीक्ष्यते । 'ईक्ष् दर्शने' (भ्वा० आ० से०) कर्माणि धञ् (३। ३। १९) । वेदे तु छांदसं हस्वत्वं । अंतर् ऋक्षा (णि नक्षत्रा) ण्यस्य । पृषोदरादित्वात् (६।३ । १०९) इत्वम् । अस्मिन् पक्षे 'अन्तरिक्षम्' इति हस्वमध्यः। अधिकरणव्युत्पत्तिस्तु नोचिता। ल्युटाधत्रो बाधप्रसंगादिति स्वोपज्ञटीकायाम् ॥ ३. निवेश: शिबिरं षंढे।। इत्यमरः ।। ४. अब्जो शंखशशांकौ च ॥ इत्यमरः ॥ ५. कैरवं चंद्रकांतं । गर्दभं कुमुदं कुमुद् ।। इति माधवः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org