________________
२७८
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
सपदि चपलं । नतु शनै: शनै: । अनेनास्य मुनीशस्य बुद्धेः परमप्राबल्यं ध्वनितं । चतुर्थस्तुतेर्निर्णयाख्यं । राजेंद्रसूरिगर्वपर्वतपवितुल्यं चतुर्थस्तुतिनिर्णयाभिधं शास्त्रं निर्मितं रचितं । किंविशिष्ठं तच्छास्त्रमित्याह । विद्वन्मान्यं । विद्वद्भिः प्राज्ञैर्मान्यं माननीयं पूज्यं प्रशस्यमितियावत् । अनेन तस्य शास्त्रस्य परमाप्तत्वं ध्वनितमिति । ।
હવે ભવ્યલોકોનો ઉપકાર કરનારા તે શ્રી વિજયાનંદ મુનિરાજ પાલીતાણાથી વિહાર કરીને તુરત રાધનપુર આવ્યા; વળી ત્યાં ચોમાસું રહીને તેમણે તુરત વિદ્વાનોને માનનીક એવું ચતુર્થસ્તુતિનિર્ણય નામનું શાસ્ત્ર બનાવ્યું.
सुचारित्राचारे गतमिह सुचारित्रविजयं ।
मम ज्ञानांभोजे तनुलतरतारुण्यतरणिम् ॥
गुरुं नत्वा तं तत्सुगुरुविजयानंदचरिते ।
मया सर्गेऽडाकः कविशिशुकहीरेण कथितः ।। ४९ ॥ "अडाकः " खेटले खगीयारमो (जाडीनो सघणो अर्थ આગળ પ્રમાણે જ જાણવો.)
इति श्री जामनगरनिवासि श्रावकवर्यहंसराजात्मजपंडितहीरालालविरचिते श्रीविजयानंदाभ्युदयाख्ये महाकाव्ये अपरनामसूरीश्वर श्रीमदात्मारामजिञ्चरिते तस्य पादलिप्तपुरागमन सूरिपदप्राप्ति भक्तामरपादपूर्तिरूपतत्स्तुतिवर्णनो नाम एकादशमः सर्गः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org