SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। जनतानामव्याबाधानंतमोक्षशर्मप्राप्तिरूपा शांतता तां करोतीत्यमितशांतिकरः । यथार्थोपदेशादिनेति शेषः । प्रबुद्धः प्रकर्षेण ज्ञातो विद्वद्भिर्भव्यजनैरिति शेषः । तेनैवैतेनहेतुनैवाहमित्येवमिह लोकेऽस्मिञ् जगति निर्भयं भयरहितं यथास्यात्तथा विघोषयामि विशेषेणोद्घोषणां करोमि । किं विघोषयामीत्याह । सूर्यातिशायिमहिमासि। त्वं भास्करतो ऽप्यधिकमहत्त्वयुक्तोऽसीति ।। २५२ હે મુનીંદ્ર ! આ સૂર્ય તો ઉત્પન્ન કરેલ છે તાપનો સમૂહ જેણે એવો છે, અને તમો તો પ્રાણીઓને અત્યંત શાંતિ કરનારા જણાએલા છો; તે જ હેતુથી હું ભય રહિત એવું જાહેર કરું છું કે, તમો આ લોકમાં સૂર્યથી પણ અધિક મહિમાવંત છો. ।। अथास्य मुनीशस्य वक्तस्य चंद्रोपमां दर्शयन्सन्स्तुतिमाह । । वाचंयमेश मम चित्तचकोरपक्षी । मिथ्यात्विचौरभरभूरिभयप्रदं वै ॥ दृष्ट्वा ननंद तव मोददवक्त्ररूपं । विद्योतयज्जगदपूर्वशशांकबिंबम् ।। २१ । ।। वाचंयमेशेति ।। हे वाचंयमेश ! हे मुनीश्वर ! मिथ्यात्विचौरभरभूरिभयप्रदं । मिथ्यात्विनः कूटधर्मावलंबिनस्तएव चौरा: स्तेनास्तेषां भर: समूहस्तेभ्यो भूरिभयप्रदं बहुदरदायकं च जगद्विद्योतयल्लोकं प्रकाशयत् । उपदेशादिकिरणप्रचारैरिति शेषः । एवंविधं तव ते मोददवक्त्ररूपमपूर्वशशांक बिंबं । मोदं हर्षं ददातीति मोददं हर्षप्रदं वक्तरूपं मुखमेवापूर्वशशांकबिंबं निरुपमसुधाकरबिंबं दृष्ट्वा विलोक्य मम मे चित्तचकोरपक्षी । चित्तं मानसं तदेव चकोरपक्षी जीवंजीवाख्यनीडोद्भवः “जीवंजीवः खगांतरे । द्रुमभेदे चकोरे च इति हैम : " ननंद प्रमोदं गतः । चकोराणां चंद्रदर्शनतो हर्षप्राप्तिः प्रसिद्धैवेति । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy