SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३२ ज्ञात्वा मुनिं जगति गौतमतुल्यमेनं । जैनेंद्रधर्मवरवारिधिचंद्रतुल्यम् ॥ संघेन हर्षसहितेन समर्पितं तं । श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। सूरेः पदं शुभदिनेऽत्र सुजैनतीर्थे ॥ ३ ॥ ।। ज्ञात्वेति । जैनेंद्रधर्मवरवारिधिचंद्रतुल्यं । जिनैरुपदिष्टाजैनास्तेष्विद्रः शक्रइव श्रेष्टः । अत्र " इंद्र" इति विशेषणमाधुनिकसमयेऽत्र प्रचलितानां जैननामधारकाणामनेकजैनाभासधर्माणां निरासार्थं । यो धर्मः स एव वरवारिधिः प्रधानरत्नाकरः । अत्र "वर" इति विशेषणं क्षारादियुक्तप्रसिद्धवारिधेर्निरासार्थं । च गांभीर्यौदार्यगहनत्वादिगुणोपेतत्वात्तस्य वारिधेरुपमा । तस्य वृद्धये चंद्रतुल्यं शशांकसमानं । एवंविधमेनं तं मुनिं यतिं जगति लोके अस्मिन्काले गौतमतुल्यं ज्ञानादिगुणैर्वीरगणधरेंक्रेंद्रभूतिसमानं ज्ञात्वा बुध्ध्वात्रास्मिन्सुजैनतीर्थे सुष्टुति जिनसंबंधिनि संसारतारकस्थाने शुभदिने शुभनक्षत्रादिभिर्विघ्ननिवारके दिवसे कार्तिककृष्णपंचमीवासरइतियावत् हर्षसहितेन प्रमोदयुक्तेन संघेन नानादेशागतोत्तम श्रावकसमुच्चयेन तमेनं मुनिंप्रति सूरेराचार्यस्य जैनधर्माधिरास्येतियावत्पदं समर्पितं सम्यक्प्रकारेण दत्तमिति ।। જૈનંદ્ર ધર્મરૂપી ઉત્તમ સમુદ્રને વૃદ્ધિ કરવામાં ચંદ્રતુલ્ય, એવા આ મુનિરાજને જગતમાં (જ્ઞાનાદિકથી) ગૌતમસ્વામિતુલ્ય જાણીને આ ઉત્તમ જૈનતીર્થમાં તેમને શુભ દિવસે હર્ષયુક્ત થએલા સંઘે સૂરિપદ આપ્યું. एवं श्री विजयानंदमुनीशस्य सूरिपदप्राप्त्या हर्षितो ग्रंथकारः पंडितहीरालालः पूर्वाचार्यरचित श्रीभक्तामराख्यस्तोत्रस्य पादपूर्त्या तस्य सूरीश्वरस्याथ स्तुतिं करोति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy