________________
२३०
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
॥ एकादशमः सर्गः प्रारभ्यते ॥
एवं गते मुदिरकाल अथो मुनीशः । शिष्यैर्युतः सपदि सूरततो जगाम ॥
स्वज्ञानभानुकिरणैः प्रविबोधयंश्च ।
भव्यांबुजानि विजहार गुणैर्युतानि ॥ १ ॥
।। एवमिति ।। एवं सूरताख्यनगरे चतुर्मासंयावज्जैनधर्माभिलाषिजनाञ् शुद्धधर्ममार्गमुपदिशन्सन् मुदिरकाले वर्षर्तुसंबंधिन्यनेहसि । यतः " मुदिर: कामुके मेघे" गते प्रयाते सति अथो अथानंतरं मुनीशः शमदमादिभूषिता ये मुनयः साधवस्तेषामीशो नायक : श्री विजयानंद: सूरीश्वरः सपदि तूर्णं । अनेनास्य मुनिराजस्योत्कृष्टजैनवृत्तत्वं सूचितं । यतः - शुद्धवृत्तधारिणो जैनमुनयो जलदकालानंतरं नैवेकत्रस्थाने वसंति । शिष्यैः स्वपरिवारैर्युतः सहित: सूरतत: सूरताख्यनगरात् जगामान्यत्रागच्छत् । च पुनः किं कुर्वन्सन्नित्याह । स्वज्ञानभानुकिरणैः स्वस्य निजस्य यद्ज्ञानं बोध: स एव भानुर्मार्तंडस्तस्य किरणैरुपदेशरूपमरीचिभिर्भव्यांबुजानि भव्या मोक्षगमनार्हा ये जनास्त एव अंबुजानि कमलानि तानि प्रविबोधयन् प्रफुल्लानि कुर्वन् बोधियुक्तानि कुर्वन्नितियावत् विजहार अटनमकरोत् । किं विशिष्ठानि भव्यांबुजानीत्याह गुणैर्युतानि श्रावकाकविंशतिगुणैर्युक्तानि पक्षे-— कमलोद्भवतंतुयुक्तानीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org