________________
१७२
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। राज्ञी सुवेणी समयुक्तवेणी ।
वाणीं मुनीशस्य पुरः प्रयाता ॥ रम्यं मयुरी घनगर्जनं च।
श्रोतुं यथा कंदरिकंदरांतात् ।। ३१ ।।
વળી પુષ્પયુક્ત છે વેણી જેણીની એવી સુવેણી રાણી, મનોહર વરસાદની ગર્જનાને સાંભળવાને મયૂરી જેમ પર્વતની ગુફામાંથી આવે, તેમ મુનિરાજની વાણી સાંભળવાને નગરમાંથી આવી. लोकेषु तत्राथ मुदा स्थितेषु ।
वाचंयमो वाचमुवाच हृद्याम् ॥ संध्वानयन्सैष निजध्वनीनां । __ वृंदेन तत्काननभूमिभागम् ॥ ३२ ।।
હવે ત્યાં લોકો હર્ષથી બેસતે છતે તે આ મુનિ, પોતાની ધ્વનિઓના સમૂહથી તે વનના ભૂમિભાગને શબ્દયુક્ત કરતા થકા મનોહર વાણી બોલવા લાગ્યા. धर्मोऽत्र लोकाः परसौविदल्ल।
उक्तो जिनैर्जंगमतीर्थरूपैः ॥ रक्षाकृते मा परकोपनाया ।
धात्र्यां सदा चंचल चंचलायाः ॥ ३३ ॥
१. प्रसुनं कुसुमं समम् ।। इत्यमरः ।। -कैश्चिच्च "प्रसुनं कुसुमं सुमं" इत्यपि पाठः पठ्यते ।। २. सौविदल्ल: कंचुकिनः ।। इत्यमरः ।।- सुष्टु विदन्तं विद्वांसमपि लांति वशवर्तिनं कुर्वंतीति “सुविदल्ला:" स्रियस्तासामिमे रक्षकाः “सौविदल्लाः" 'तस्येदं' (४-३-१२०) इत्वण्-इति स्वोपज्ञटीकायाम् ॥ ३. मा लक्ष्म्यां वारणेऽव्ययम् ॥ इति हैमः ॥ ४. कोपना सैव भामिनी ॥ इत्यमरः ।।-कुप् क्रोधेकुप्यति तच्छिला (दि० प० से०) 'क्रुधमंडार्थेभ्यश्च' (३-२-१५१) इति युच् । लक्ष्या अस्थिरस्वभावत्वात् तस्याः कोपनत्वं तु जगत्प्रसिद्धमेवेति स्वोपज्ञटीकायाम्।। ५. चंचलश्चपलेऽनिले ।। इति मेदिनी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org