________________
१०४
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। स तस्याः कुचकुंभे चा, चित्रयत्पत्रव लरिम् , प्रशस्तिमिव पंचेषो, रेणाक्ष्या एणनाभिभिः ॥ ८९ ।।
હરિણ સરખાં નેત્રોવાળી એવી તે વેશ્યાના કુચ કુંભ પર, તે રાજા, જાણે કામદેવની પ્રશસ્તિ લખતો હોય નહીં જેમ, તેમ કસ્તૂરીથી પત્રવલ્લરી ચિતરવા લાગ્યો. सापि स्वबाह्यरूपेणां, तर्मलालिमलीमसा । राजानं प्रीणयामास, कैरविणीव वापिगा ॥९० ।।
અંતરમાં રહેલા મેલની શ્રેણિથી મલિન થએલી (પક્ષે–અંદર રહેલા પણ ભમરાથી મલિન લાગતી) એવી તે વેશ્યા પણ વાવમાં રહેલી કુમુદિનીની પેઠે રાજાને (પક્ષે–પોતાના સ્વામિ ચંદ્રને) પોતાના બાહ્ય રૂપથી ખુશી કરવા લાગી. वाचमुवाच वाचाटा, वंचका वंचकामसौ । स्वामिनिह हि नीलेय, मलिमालातिलोलुपा ।। ९१ ॥ कमलामलसौरभ्ये, भवंतं हि विना भवेत् । ममाय:श्रृंखलेवालं, बंधने दर्पदंतिनः ॥ ९२ ॥ ॥ युग्मम् ॥
१. अंतर्मलालिमलीमसा वेश्यात्वेन परपुरुषाभिलाषरूपहृदयगतपापसंभारतो मलीनत्वापन्ना । अथवा शरीरांतर्गतविष्टादिमलश्रेणितोमलीनतां प्राप्ता। यतः । "वशाशुक्रमसृग्मज्जा । कर्णविड्मूत्रविड्नखाः ।। श्लेष्माश्रुदूषिकाः खेदो। द्वादशैते नृणां मलाः ॥ १ ॥ कैरविणीपक्षे तु अंतःस्थितकृपणभ्रमरेण श्यामत्वं प्राप्ता अथवा अंतर्गत मकरंदरसलुब्धभ्रमराचारितचुंबनत्वेन दंशादिप्रहारेण कामुककृतचुंबनादिना मुग्धकुमारिकेव मालिन्यं गता । कमलिनीनां कुमुदिनीनां च कुद्यलकालेऽपि भ्रमराणां मकरंदकदंबकलुब्धकत्वेन बंधनप्रसिद्धितो हि कृपणत्वं युक्तमेवेति स्वोपज्ञटीकायाम् ॥ २. वाप्यां वापिरपि स्मृता ॥ इति द्विरूपकोशः ॥ ३. मलोऽस्त्री पापविकिट्टे । कृपणेत्वभिधेयवत् ॥ इति मेदिनी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org