________________
કલિકાલ સર્વજ્ઞ ભગવાનશ્રી હેમચંદ્રાચાર્ય રચિત અહના ધ્યાન માટેના યેાગશાસ્ત્રના આઠમા પ્રકાશના શ્લાકા
अथवा नाभिकंदाधः पद्ममष्टदलं स्मरेत् । स्वरालिकेसरं रम्यं वर्गाष्टकयुतैर्दलैः ॥ ६ ॥ दलसंधिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलाग्रेषु समग्रेषु मायाप्रणवपावितम् ॥ ७ ॥ तस्यांतरंति मंत्रर्णमाद्यवर्णपुरस्कृतम् । रेफाक्रांत कलाबिन्दुरम्यं प्रालेयनिर्मलम् ॥ ८ ॥ अर्हमित्यक्षरं प्राणप्रांतसंस्पर्श पावनम् । ह्रस्वं दीधे प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ॥ ९ ॥ ग्रंथीन् विदारयन्नाभिकंठहृदूघंटिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥ १० ॥ अथ तस्यांतरात्मानं प्लाव्यमानं विचितयेत् । बिदुतप्तकलानिर्यत् क्षीरगौरामृतोर्मिभिः ॥ ११ ॥ ततः सुधारसः स्रुतषोडशाब्जदलोदरे । आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडशः || १२ || स्फुरत् स्फटिकभृंगार-क्षरत्क्षीरासितामृतैः । आभिराप्लाव्यमानं स्वं चिरं चित्ते विचितयेत् ||१३|| अथास्य मंत्रराजस्याभिधेयं परमेष्ठिनम् । अर्हतं मूर्द्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम ॥ १४ ॥ सद्ध्यानावेशतः सोहं सोहमित्याऽऽलपन्मुहुः । निःशंकमेकतां विद्यादात्मनः परमात्मनः ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org