________________
नामगोत्रयोविंशतिः || १७ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य ॥ १८ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ विपाकोऽनुभावः ॥ २२ ॥ स यथानाम || २३ ॥
ततश्च निर्जरा ॥ २४ ॥
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः
सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ।। २५ ।।
सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥
नवमोऽध्यायः
आस्रवनिरोधः संवरः || १ || सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २ ॥ तपसा निर्जरा च ॥ ३ ॥
सम्यग्योगनिग्रहो गुप्तिः || ४ ॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः || ५ | उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागा
किञ्चन्यब्रह्मचर्याणि धर्मः || ६ || अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वास्रवसंवरनिर्जरा
लोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥ ७ ॥
मार्गाच्यवननिर्जरार्थं परिसोढव्याः परीषहाः || ८ ॥ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कार
Jain Education International
पुरस्कारप्रज्ञाज्ञानादर्शनानि ।। ९ ।।
सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ||| १० ||
२१
For Private & Personal Use Only
www.jainelibrary.org