________________
पृथिव्यम्बुवनस्पतयः स्थावराः ॥ १३ ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ।। १४ ।। पञ्चेन्द्रियाणि || १५||
द्विविधानि ॥ १६ ॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ लब्ध्युपयोगी भावेन्द्रियम् ॥ १८ ॥ उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि ॥ २० ॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१ ॥
श्रुतमनिन्द्रियस्य ।। २२ ।।
वाय्वन्तानामेकम् || २३ ॥
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४ ॥
संज्ञिनः समनस्काः ॥ २५ ॥
विग्रहगतौ कर्मयोगः ॥ २६ ॥
अनुश्रेणि गतिः ॥ २७ ॥
अविग्रहा जीवस्य ॥ २८ ॥
विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥ २९ ॥ एकसमयोऽविग्रहः || ३० ॥
एकं द्वौ वाऽनाहारकः || ३१ ॥ सम्मूर्छनगर्भोपपाता जन्म ॥ ३२ ॥
सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३३ ॥
जराखण्डपोतजानां गर्भः ॥ ३४ ॥
नारकदेवानामुपपातः ॥ ३५ ॥
शेषाणां सम्मूर्छनम् || ३६ ॥
औदारिकवैक्रियाऽऽहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥
परं परं सूक्ष्मम् ॥ ३८ ॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥
Jain Education International
११
For Private & Personal Use Only
www.jainelibrary.org