________________ “एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे संसार-महा-समुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे 4 बुड्डमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाण-तीराभिमुहे साहत्थिं संपावेइ / से तेणठेणं, देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महा-निज्जामए" // 218 // छायाततः खलु स गोशालो मङ्खलिपुत्रः सद्दालपुत्रं श्रमणोपासकमेवमवादीत्-"श्रमणो भगवान् महावीरो महामाहनः !" “तत्केनार्थेन देवानुप्रिय ! एवमुच्यते श्रमणो भगवान् महावीरो महामाहनः ?" “एवं खलु सद्दालपुत्र ! श्रमणो भगवान् महावीरो महामाहन उत्पन्न-ज्ञानदर्शनधरो यावन्महितपूजितो यावत्तथ्यकर्म-सम्पदा-सम्प्रयुक्तः, तत्तेनार्थेन देवानुप्रिय ! एवमुच्यते श्रमणो भगवान् महावीरो महामाहनः / " “आगतः खलु, देवानुप्रिय ! इह महागोपः ?" "कः खलु, देवानुप्रिय !" इह महागोपः ?" "श्रमणो भगवान् महावीरो महागोपः ?" “तत्केनार्थेन देवानुप्रिय ! यावन्महागोपः ? "एवं खलु देवानुप्रिय ! श्रमणो भगवान् महावीरः संसाराटव्यां बहून् जीवान् नश्यतो विनश्यतः खाद्यमानान् छिद्यमानान् भिद्यमानान् लुप्यमानान् विलुप्यमानान् धर्ममयेन दण्डेन संरक्षन् संगोपयन् निर्वाण-महावाटं स्वहस्तेन संप्रापयति, तत्तेनार्थेन सद्दालपुत्र ! एवमुच्यते श्रमणो भगवान् महावीरो महागोपः।" “आगतः खलु देवानुप्रिय ! इह महासार्थवाहः ?" "कः खलु देवानुप्रिय ! महासार्थवाहः ?" “सद्दालपुत्र ! श्रमणो भगवान् महावीरो महासार्थवाहः।” “तत्केनार्थेन ? “एवं खलु देवानुप्रिय ! श्रमणो भगवान् महावीरः संसाराटव्यं बहून् जीवान् नश्यतो विनश्यतो यावद् विलुप्यमानान् धर्ममयेन पथा संरक्षन् निर्वाणमहापत्तनाभिमुखे स्वहस्तेन सम्प्रापयति, तत्तेनार्थेन सद्दालपुत्र ! एवमुच्यते श्रमणो भगवान् महावीरो महासार्थवाहः।" "आगतः खलु देवानुप्रिय। इह महाधर्मकथी ?" "कः खलु देवानुप्रिय ! महाधर्मकथी ?" "श्रमणो भगवान् महावीरो महाधर्मकथी।" "तत्केनार्थेन श्रमणो भगवान् महावीरो महाधर्मकथी ?" “एवं खलु देवानुप्रिय ! श्रमणो भगवान् महावीरो महातिमहालये संसारे बहून् जीवान् नश्यतो विनश्यतः खाद्यमानान् छिद्यमानान् भिंद्यमानान् लुप्यमानान् विलुप्यमानान् उन्मार्गप्रतिपन्नान् सत्पथविप्रनष्टान् मिथ्यात्वबलाभिभूतानष्टविधकर्मतमः पटलप्रत्यवच्छन्नान् बहुभिर- थैश्च यावद् व्याकरणैश्च चातुरन्तात्संसास्कान्तारात् स्वहस्तेन निस्तारयति, तत्तेनार्थेन देवानुप्रिय! एवमुच्यते श्रमणो भगवान् महावीरो महाधर्मकथी। “आगतः खलु देवानुप्रिय ! इह महानिर्यामकः ?" "कः खलु, देवानुप्रिय ! "महानिर्यामकः ?" "श्रमणो भगवान् महावीरो महानिर्यामकः / " “तत्केनार्थेन ?" एवं खलु देवानुप्रिय ! श्रमणो भगवान् महावीरः संसारमहासमुद्रे बहून् जीवान् नश्यतो विनश्यतो यावद् विलुप्यमानान् ब्रुडतो निब्रुडत उत्प्लवमानान् धर्ममय्या नावा निर्वाणतीराभिमुखे स्वहस्तेन सम्प्रापयति, तत्तेनार्थेन देवानुप्रिय ! एवमुच्यते श्रमणो भगवान् महावीरो महानिर्यामकः / " / | श्री उपासक दशांग सूत्रम् / 313 / सद्दालपुत्र उपासक, सप्तम अध्ययन