________________ दारियं वा पयामि, तो णं अहं तुब्भं जायं च दायं च भागं च अक्खयणिहिं च . अणुवड्ढेस्सामि, त्ति कट्ट ओवाइयं उवाइणित्तए।एवं संपेहेति संपेहित्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति उवागच्छित्ता सागरदत्तं सत्थवाहं एवं वयासी-एवं खलु अहं देवाणुप्पिए ! तुब्भेहि सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिए! तुब्भेहिं अब्भणुण्णाता जाव उवाइणित्तए। तते णं से सागरदत्ते गंगादत्तं भारियं एवं वयासी-ममं पि णं देवाणुप्पिए ! एस चेव मणोरहे, कहं णं तुमं दारगंवा दारियं वा पयाएज्जासि।गंगादत्तं भारियं एयमटुं अणुजाणेति। छाया-ततः सा गंगादत्ता भार्या जातनिद्रुता चाप्यभवत्। जाता-जाता दारका विनिघातमापद्यन्ते / ततस्तस्या गंगादत्तायाः सार्थवाह्याः अन्यदा कदाचित् पूर्वरात्रापररात्रकुटुम्बजागरिकया जाग्रत्या अयमेतद्रूप आध्यात्मिकः 5 समुत्पन्न:-एवं खल्वहं सागरदत्तेन सार्थवाहेन सार्द्ध बहूनि वर्षाणि उदारान् मानुष्यकान् भोगभोगान् भुंजाना विहरामि, नो चैवाहं दारकं वा दारिकां वा प्रजन्ये, तद्धन्यास्ता अंबा: सपुण्यास्ता अंबाः, कृतार्थास्ता अंबाः, कृतलक्षणास्ता अंबाः, सुलब्धं तासामम्बानां मानुष्यकं जन्मजीवितफलम्, यासां मन्ये निजकुक्षिसंभूतानि स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मनप्रजल्पितानि स्तनमूलात् कक्षदेशभागमतिसरन्ति, मुग्धकानि, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वोत्संगनिवेशितानि ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मंजुलप्रभणितान्। अहमधन्या, अपुण्या, अकृतपुण्या एतेषामेकतरमपि न प्राप्ता / तच्छ्रेयः खलु मम कल्यं यावज्वलति, सागरदत्तं सार्थवाहमापृच्छ्य सुबहु पुष्पवस्त्रगन्धमाल्यालंकारं गृहीत्वा बहुभिः मित्रज्ञातिनिजकस्वजनसंबन्धिपरिजनमहिलाभिः सार्धं पाटलिपंडात् नगरात् प्रतिनिष्क्रम्य बहिः यत्रैवोम्बरदत्तस्य यक्षस्य यक्षायतनं तत्रैवोपागत्य, तत्रोम्बरदत्तस्य यक्षस्य महाहँ पुष्पार्चनं कृत्वा १जानुपादपतितयोपयाचितुं-यद्यहं देवानुप्रिय ! दारकं वा दारिकां वा प्रजन्ये, तदाहं तुभ्यं यागं च दायं च भागं च अक्षयनिधिं चानुवर्धयिष्यामि, इति कृत्वोपयाचितमुपयाचितुम्। एवं स प्रेक्षते सम्प्रेक्ष्य कल्यं यावज्वलति यत्रैव सागरदत्तः सार्थवाहस्तत्रैवोपा 1. जानुभ्यां-जानुनी भूमौ निपात्येत्यर्थः, पादयोः यक्षचरणयोः पतितायाः-नतायाः, उपागत्य कार्यसिद्धौ सत्यां प्राभृतार्थं मानसिकं संकल्पं कर्तुमित्यर्थः। 582 ] श्री विपाक सूत्रम् / सप्तम अध्याय [प्रथम श्रुतस्कंध