________________ दुजोहणस्स चारगपालस्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताण य कलंबचीरपत्ताण य पुंजा णिगरा य चिट्ठन्ति। तस्स णंदुजोहणस्स चारगपालस्स बहवे लोहखीलाण य कडसक्कराण य चम्मपट्टाण य अलपट्टाण य पुंजा णिगरा य चिट्ठन्ति।तस्स णं दुजोहणस्स चारगपालस्स बहवे सूईण य डंभणाण य कोहिल्लाण य पुंजा णिगरा य चिट्ठन्ति। तस्स णं दुजोहणस्स चारगपालस्स बहवे सत्थाण य पिप्पलाण य कुहाडाण य नहछेयणाण य दब्भाण य पुंजा जिंगरा य चिट्ठन्ति। ___छाया-एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे सिंहपुरं नाम नगरमभूत्, ऋद्धः / तत्र सिंहपुरे नगरे सिंहरथो नाम राजाभूत् / तस्य सिंहरथस्य राज्ञो दुर्योधनो नाम चारकपालोऽभूदधार्मिको यावत् दुष्प्रत्यानन्दः। तस्य दुर्योधनस्य चारकपालस्य इदमेतद्रूपं चारकभांडमभवत्। तस्य दुर्योधनस्य चारकपालस्य बहवोऽयः कुण्ड्योऽप्येकास्ताम्रभृताः, अप्येकास्त्रपुभृताः, अप्येकाः सीसकभृताः, अप्येकाः कलकलभृताः, अप्येकाः क्षारतेलभृताः, अग्निकाये आदग्धास्तिष्ठति / तस्य दुर्योधनस्य चारकपालस्य बढ्याः उष्ट्रिकाः अश्वमूत्रभृताः ‘अप्येकाः हस्तिमूत्रभृताः, अप्येकाः उष्ट्रमूत्रभृताः, अप्येकाः, गोमूत्रभृताः, अप्येकाः महिषमूत्रभृताः अप्येकाः अजमूत्रभृताः, अप्येकाः एडमूत्रभृता: बहुपरिपूर्णास्तिष्ठन्ति। तस्य दुर्योधनस्य चारकपालस्य बहवो हस्तान्दुकानां च पादान्दुकानां च हडीनां च निगडानां च श्रृंखलानां च पुञ्जा निकराश्च संनिक्षिप्तास्तिष्ठन्ति। तस्य दुर्योधनस्य चारकपालस्य बहवो वेणुलतानां च वेत्रलतानां च चिंचालतानां च छिवाणां (श्लक्ष्णचर्मकशानां) च कसानां च वल्करश्मीनां च पुंजा निकराश्च तिष्ठन्ति / तस्य दुर्योधनस्य चारकपालस्य बहवः शिलानां च लकुटानां च मुद्गराणां च कनङ्गराणां च पुजा निकराश्च तिष्ठन्तिा तस्य दुर्योधनस्य चारकपालस्य बहवः तंत्रीणां च वरत्राणां च वल्करज्जूनां च वालरज्जूनां च सूत्ररज्जूनां च पुंजा निकराश्च सन्निक्षिप्तास्तिष्ठन्ति / तस्य दुर्योधनस्य चारकपालस्य बहवः असिपत्राणां च करपत्राणां च क्षरपत्राणां च कदम्बचीरपत्राणां च पुंजा निकराश्च तिष्ठन्ति। तस्य दुर्योधनस्य चारकपालस्य बहवो लोहकीलानां च कटशर्कराणां च (वंशशलाकानां च) चर्मपट्टानां च अलपट्टानां च प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / षष्ठ अध्याय [519